________________
अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७]
३९२ प्रस्तुतमिति चेत्, नैवम्, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित् प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत् कथ्यत इति भावः । तत्र भवे नारकादिपर्यायभवनलक्षणे आयु:समाप्तिं यावत् सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया। 5 तत्र भवधारणीया जघन्यतोऽगुलासङ्ख्येयभागमात्रा उत्पद्यमानानाम्, उत्कृष्टा तु पञ्चधनु:शतमाना सप्तमपृथिव्याम् । उत्तरवैक्रिया त्वाद्यसमयेऽप्यनुलस्य सङ्खयेयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयभागस्य कर्तुमशक्यत्वादिति भावः । उत्कृष्टा तु धनु:सहस्रप्रमाणा सप्तमपृथिव्यामेव । ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह- रयणप्पहापुढवीत्यादि सूत्रसिद्धमेव । 10 नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु द्रष्टव्या, भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया । तदेवं
नेरइया असुराई पुढवाई बिंदियादओ तह य ।।
पंचेंदियतिरियनरा वंतर जोइसिय वेमाणी ॥१॥ [ ] इति समयप्रसिद्धचतुर्विंशतिदण्डकस्याद्यपदेऽवगाहनामानं निरूपितम् । 15 ____साम्प्रतमसुरादिपदे तन्मानं निरूपयितुमाह- असुरकुमाराणं भंते केमहालियेत्यादि सर्वं पाठसिद्धम्, नवरम् उत्तरवैक्रियावगाहनाऽत्रापि जघन्या अङ्गुलस्य सङ्ख्येयभाग एव, उत्कृष्टा तु दशस्वपि निकायेषु योजनशतसहस्रमाना, अन्ये त्वाहुः - नागकुमारादिनवनिकायेषूत्कृष्टाऽसौ योजनसहस्रमानैवेति ।
अथ पृथिव्यादिपदेऽवगाहनामानमाह - पुढविकाइयाणं भंते ! इत्यादि । 20 इहौधिकपृथिवीकायिकानां प्रथममवगाहनामानं निरूप्यते १, ततस्तेषामेवौघत: सूक्ष्माणाम् २, तत: सूक्ष्माणामप्यपर्याप्तानाम् ३, तथा पर्याप्तानाम् ४, तत औघिकबादराणाम् ५, ततोऽमीषामेवापर्याप्तत्वविशेषितानाम्६,तथा पर्याप्तत्वविशेषितानाम् ७, तेषु च सप्तस्वपि स्थानेषु पृथिवीकायिकानामगुलासङ्ख्येयभाग एवावगाहना, किन्त्वसङ्ख्येयकस्य असङ्ख्येयभेदत्वेन तस्यापि तारतम्यसम्भवात् जघन्योत्कृष्टताविचारो न विरुध्यते । 25 १. प्तविशे' खं० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org