________________
३९३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एवमप्तेजो-वायु-वनस्पतिष्वगुलासङ्ख्येयभागावगाहीनि यथोक्तानि सप्त सप्त स्थानानि वाच्यानि, नवरमौधिकबादरवनस्पतिषु पर्याप्तेषु च तेषु जघन्यतोऽमुलासङ्ख्येयभागरूपा, उत्कृष्टतस्तु समुद्र-गोतीर्थादिगतपद्मनालाद्याश्रित्य सातिरेकयोजनसहनमाना अवगाहना द्रष्टव्या, अत्राह- ननु यदीत्थं भेदतोऽवगाहना चिन्त्यते तदा नारका-ऽसुरकुमारादिष्व5 प्यपर्याप्त-पर्याप्तभेदत: कस्मादसौ न प्रोक्ता ? सत्यम्, किन्तु ते लब्धितः सर्वेऽपि पर्याप्ता एव भवन्ति, अतोऽपर्याप्तत्वलक्षणस्य प्रकारान्तरस्य किल तत्रासम्भवान्न भेदतस्तच्चिन्ता, विचित्रत्वाद्वा सूत्रगतेरित्यलं विस्तरेण ।
अथ द्वीन्द्रियादिपदे अवगाहनामाह- तत्रौघिकद्वीन्द्रियाणाम् अपर्याप्तानां पर्याप्तानां चेति स्थानत्रये अवगाहना चिन्त्यते, एतेषु बादरत्वस्यैव सद्भावात् सूक्ष्मत्वाभावतो 10 न तच्चिन्तासम्भवः, द्वादश च योजनानि शरीरावगाहना स्वयम्भूरमणादि
शङ्खादीनामवसेया, एवं त्रीन्द्रियेष्वपि स्थानत्रये अवगाहना भावनीया, नवरं गव्यूतत्रयं शरीरावगाहना बहिर्दीपवर्तिकर्णशृगाल्यादीनामवगन्तव्या, एवं चतुरिन्द्रियेष्वपि, नवरं गव्यूतचतुष्टयं शरीरमानं बहिर्वीपवर्तिनां भ्रमरादीनाम् ।
___ अत्र पञ्चेन्द्रियतिर्यपदेऽवगाहनां निरूपयितुमाह - पंचेंदियतिरिक्ख15 जोणियाणमित्यादि । इहौघिकपञ्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते- सा चोत्कृष्टा योजनसहस्रम्, जघन्यं तु पदं सर्वत्रामुलासङ्ख्येयभागरूपत्वेनाविशेषान्नोच्यते, स्वयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यञ्चो जलचर-स्थलचर-खचरभेदात् त्रिधा भवन्ति, तत्रौघिकजलचराणां प्रथममवगाहना निरूप्यते- साऽप्युत्कृष्टा योजनसहस्रम् १,
ततस्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, ततस्तेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टा20 ऽप्यङ्गुलासङ्ख्येयभागमानैव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्टा
योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षवती योजनसहस्रम् ५, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासङ्ख्येयभाग: ६, ततोऽप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७, इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहना
स्थानानि । अत्र च सर्वत्र योजनसहस्रमानं स्वयम्भूरमणमत्स्यानामवसेयम् । 25 इदानीं स्थलचरेषु निरूप्यते- तेऽपि चतुष्पदोर:परिसर्प-भुजपरिसर्पभेदात् त्रिविधा
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org