________________
३९४
अनुयोगद्वारसूत्रम् [ सू० ३३९-३५७] भवन्ति, अत आदावौघिकचतुष्पदस्थलचराणामुच्यते- सा चोत्कृष्टपदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षड्गव्यूतप्रमाणा निश्चेतव्या १, ततस्तेषामेव सम्मूर्च्छजत्वविशेषितानां सा गव्यूतपृथक्त्वम् २, ततोऽपर्याप्तानामुत्कृष्टाऽप्यगुलासङ्ख्येयभाग: ३, पर्याप्तानां गव्यूतपृथक्त्वम् ४, तेषामेव गर्भजानां गव्यूतषट्कम् ५, तेषामेवापर्याप्तानामङ्गुलासङ्ख्येयभाग: ६, पर्याप्तानां षड् गव्यूतानि ७, इति 5 चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि ।
___साम्प्रतं विषधराधुर:परिसर्पस्थलचरपञ्चेन्द्रियतिर्यक्ष्ववगाहना प्रोच्यतेतत्रौघिकोर:परिसर्पाणां बहिर्वीपवर्तिगर्भजसोनाश्रित्योत्कृष्टा योजनसहस्रम् १, सम्मूर्च्छनजानां योजनपृथक्त्वम् २, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभाग: ३, पर्याप्तानां योजनपृथक्त्वम् ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामगुलासङ्ख्येयभाग: 10 ६, पर्याप्तानां योजनसहस्रम् ७, इत्युर:परिसर्पेषु सप्त स्थानानि ।
एवं भुजपरिसपेष्वपि गोधा-नकुलादिस्थलचरेष्वपीत्थमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे १ सामान्यगर्भजपदे २ पर्याप्तगर्भजपदे च ३ गव्यूतपृथक्त्वम्, सामान्यसम्मूर्च्छनजपदे ४, पर्याप्तसम्मूर्छनजपदे ५ च धनु:पृथक्त्वम्, शेषपदद्वयेऽमुलासङ्ख्येयभाग:६-७, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता। 15
एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्रापर्याप्तसम्मूछेजाऽपर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येकम् अङ्गुलासङ्ख्येयभाग:, शेषेषु पञ्चसु स्थानेषु धनुःपृथक्त्वम्, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह- एत्थ संगहणिगाहाओ भवंति, तंजहा
जोअणसहस्स गाउयपुहत्त तत्तो य जोयणपुहत्तं । दुण्हं तु धणुपुहत्तं समुच्छिम होइ उच्चत्तं ॥१॥
सम्मूर्च्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परत:, सम्मूञ्जेजचतुष्पदानां तु गव्यूतपृथक्त्वमेव, सम्मूर्च्छजोर:परिसर्पाणां योजनपृथक्त्वमेव, सम्मूर्च्छजभुजपरिसर्प-खचरलक्षणयोर्द्वयोः प्रत्येकं धनुःपृथक्त्वमेवेति । तदेवं सम्मूञ्जेजविषय: सङ्ग्रहः कृतः । अथ गर्भजविषयं तं कुर्वन्नाह
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org