________________
३९५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
जोअणसहस्स छग्गाउआई तत्तो य जोअणसहस्सं । गाउयपुहत्त भुयगे पक्खीसु भवे धणुपुहत्तं ॥१॥
__ गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गव्यूतानि, गर्भजोर:परिसर्पाणां योजनसहस्रम्, गर्भजभुजगानां 5 गव्यूतपृथक्त्वम्, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं गाथाद्वयं क्वचिदेव वाचनाविशेषे दृश्यते, सोपयोगत्वाच्च लिखितम् ।
__ अथ मनुष्याणामवगाहना प्रोच्यते - तत्रौघिकपदे देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गव्यूतानि १, वात-पित्त-शुक्र-शोणितादिषु सम्मूर्छितमनुष्याणामुत्कर्षतो
ऽप्यङ्गुलासङ्ख्येयभाग एव, ते ह्येतावदवगाहनायामेव वर्तमाना अपर्याप्ता एव म्रियन्ते, 10 अत एव पर्याप्तापर्याप्तचिन्ताऽप्यत्र न कृता, अपर्याप्तत्वादेवैषामिति २ । एवं सामान्यतो
गर्भजानां ततोऽपर्याप्तानां पर्याप्तानां च भावना कार्या । तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता । . ___व्यन्तर-ज्योतिष्काणामसुरकुमारवद्भावनीया । वैमानिकानामपि तथैव, नवरं
सौधर्मेशानयोरुत्कृष्टा भवधारणीयशरीरावगाहना सप्तहस्ता, सनत्कुमार-माहेन्द्रयोः षट्, 15 ब्रह्मलोक-लान्तकयो: पञ्च, महाशुक्र-सहस्रारयोश्चत्वारः, आनत-प्राणता-ऽऽरणाऽच्युतेषु त्रयः । ग्रैवेयकेषु द्वौ, उत्तरवैक्रि या तु न वाच्या, ग्रैवेयकेषूत्तरवैक्रियशरीरनिर्वर्तनस्याभावाद्, एवमुत्तरत्रापि । अनुत्तरविमानेषु त्वेको हस्तः । तदेवमेषावगाहना सर्वाऽप्युत्सेधाङ्गुलेन मीयते । एतच्च सूची-प्रतर-घनभेदात्
त्रिविधमात्माङ्गुलवद् भावनीयम् । उक्तमुत्सेधाङ्गुलम् । 20 सू० ३५८] से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स णं रण्णो
चाउरंतचक्कवट्टिस्स अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पण्णत्ते, तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा, तं समणस्स भगवओ महावीरस्स अद्धंगुलं, तं सहस्सगुणं पमाणंगुलं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org