SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ] विशेषः । यानं गन्त्र्यादि । जुग्गति गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानम् । गिल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव । थिल्लि त्ति लाटानां यदड्डपल्लाणं रूढं तदन्यविषयेषु थिल्लीत्युच्यते । सीय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः । संदमाणिय त्ति पुरुषप्रमाणायामो जम्पानविशेष एव । लोहि त्ति लोही मण्डकादिपचनिका कविल्ली । लोहकडाह 5 त्ति लोहमयं बृहत्कडिल्लम् । भाण्डं मृन्मयादिभाजनम् । कांश(स्य)भाजनाद्युपकरणमात्राया आधारविशेषः । उपकरणं त्वनेकविधं कट-पिटकशूर्पादिकम् । शेषं तु यदिह क्वचित् किञ्चिन्न व्याख्यातं तत् सुगमत्वादिति मन्तव्यम् । तदेवमात्माङ्गुलेनात्मीयात्मीयकालसम्भवीनि वस्तून्यद्यकालीनानि च योजनानि मीयन्ते, ये यत्र काले पुरुषा भवन्ति तदपेक्षयाऽद्यशब्दो द्रष्टव्यः । मात्र: 000 000 9 इदं चात्माङ्गुलं सूच्यङ्गुलादिभेदात् त्रिविधम् । तत्र दैर्घ्येणाङ्गुलायता बाहल्यतस्त्वेकप्रादेशिकी नभः प्रदेशश्रेणिः सूच्यङ्गुलमुच्यते, एतच्च सद्भावतोऽसङ्ख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यम्, तद्यथा- [:], सूची सूच्यैव गुणिता प्रतराङ्गुलम्, इदमपि परमार्थतोऽसङ्ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येकं 15 प्रदेशत्रयनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना - प्रतरश्च सूच्या गुणितोदैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं घनाङ्गुलं भवति, दैर्घ्यादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्य्यया घनस्येह रूढत्वात् । प्रतराङ्गुलं तु दैर्घ्यविष्कम्भाभ्यामेव समं न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः । इदमपि वस्तुवृत्त्याऽसङ्ख्येयप्रदेशमानम्, असत्प्ररूपणया तु सप्ता ( त ) विंशतिप्रदेशात्मकम्, 20 पूर्वोक्तसूच्या अनन्तरोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावात् । एषां च स्थापना २७ अनन्तरनिर्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्त्वा भावनीया, तथा च दैर्घ्य - विष्कम्भ - पिण्डैस्तुल्यमिदमापद्यते । एएसिं णं भंते इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पबहुत्वचिन्ता यथानिर्दिष्टन्यायानुसारतः १. सप्त खंसं० ॥ Jain Education International For Private & Personal Use Only ३७६ 10 www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy