________________
३७५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सारिण्य एव वक्रा गुञ्जालिका भण्यन्ते । सरः स्वयंसम्भूतो जलाशयविशेष एव। सरपंतियाउ त्ति पङ्क्तिभिर्व्यवस्थापितानि सरांसि सर:पङ्क्तयः । सरसरपंतियाउ त्ति यासु सर:पक्तिष्वेकस्मात् सरसोऽन्यत्र ततोऽपि अन्यत्र कपाटसञ्चारकेनोदकं संचरति
ता: सर:सर:पङ्क्तयः । बिलपङ्क्तयः प्रतीता: । माधवीलतादिषु दम्पत्यादीनि 5 येष्वारमन्ति क्रीडन्ति ते आरामाः । पुष्प-फलादिसमृद्धानेकवृक्षसङ्कुलान्युत्सवादौ बहुजनपरिभोग्यान्युद्यानानि । सामान्यवृक्षजातियुक्तानि नगराभ्यर्णवर्तीनि काननानि, अथवा स्त्रीणां पुरुषाणां वा केवलानां परिभोग्यानि काननानि, यदिवा येभ्य: परतो भूधरोऽटवी वा तानि सर्वेभ्योऽपि वनेभ्य: पर्यन्तवर्तीनि काननानि, शीर्णवृक्षकलितानि
वा काननानि । एकजातीयवृक्षाकीर्णानि वनानि । अनेकजातीयैरुत्तमैश्च पादपैराकीर्णानि 10 वनखण्डानि । एकजातीयानामितरेषां वा शाखिनां पङ्क्तयो वनराजय: । सन्तो
भजन्त्येतामिति सभा पुस्तकवाचनभूमिर्बहुजनसमागमस्थानं वा । अध उपरि च समखातरूपा खातिका । अध: सङ्कीर्णोपरि विस्तीर्णा खातरूपा तु परिखा । प्राकारोपरि आश्रयविशेषा: अहालकाः । गृहाणां प्राकारस्य चान्तरे अष्टहस्तविस्तारो
हस्त्यादिसञ्चारमार्गश्चरिका । प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि । राज्ञां 15 देवतानां च भवनानि प्रासादाः, उत्सेधबहुला वा प्रासादा: । गृहाणि सामान्यजनानां
सामान्यानि वा, शरणानि तृणमयावसरिकादीनि । लयनानि उत्कीर्णपर्वतगृहाणि, गिरिगुहा वा, कार्पटिकाद्यावासस्थानं वा । आपणा हट्टाः । नानागृहाध्यासितस्त्रिकोणो भूभागविशेष: शृङ्गाटकम् स्थापना A, त्रिपथसमागमो वा शृङ्गाटकम्, त्रिकं तु त्रिपथसमागम एव, तद्यथा- L। प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा ., 20 चतुष्पथसमागमो वा चतुष्कम् । चत्वरं चतुष्पथसमागम एव- +, षट्पथसमागमो
वा चत्वरम् । चतुर्मुखदेवकुलिकादि चतुर्मुखम् । महान् राजमार्गो महापथः, इतरे पन्थानः । देवकुल-सभादीनि पदानि क्वचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते। शक्टं गड्डकादि । स्थो द्विधा- यानरथ: सङ्ग्रामरथश्च, तत्र सङ्ग्रामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य त्वसौ न भवतीति १. छच्चरं जेमू१ । चूर्णी छच्चरं इत्येव पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org