________________
अनुयोगद्वारसूत्रम् [ सू० ३३३-३३८ ]
उन्मिता उच्चैस्त्वेन, पुनः शब्दस्त्वेषामेवाधिकपुरुषादीनामनेकभेदतादर्शकः, आत्माङ्गुलेनैव षण्णवत्यङ्गुलान्यधमपुरुषा भवन्ति, चउरुत्तर मज्झिमिल्ला उत्ति तेनैवाङ्गुलेन चतुरुत्त॑रमङ्गुलशतं मध्यमाः, तुशब्दो यथानुरूपशेषलक्षणादिभावप्रतिपादनपर इति गाथार्थः ।
2
ये अष्टोत्तरशताङ्गुलमानाद्धीना अधिका वा ते किं भवन्तीत्याह- हीणा वा गाहा, अष्टोत्तरशताङ्गुलमानात् हीना वा अधिका वा ये खलु, स्वर: 5 सकलजनादेयत्व-प्रकृतिगम्भीरतादिगुणालङ्कृतो ध्वनिः सत्त्वं दैन्यविनिर्मुक्तो मानसोऽवष्टम्भः, सारः शुभपुद्गलोपचयजः शारीरः शक्तिविशेष:, तैः परिहीणाः सन्तस्ते उत्तमपुरुषाणाम् उपचितपुण्यप्राग्भाराणाम् अवशा अनिच्छन्तोsuशुभकर्मवशतः प्रेष्यत्वमुपयान्ति । स्वरादिशेषलक्षणवैकल्यसहायं च यथोक्तप्रमाणाद्धीनाधिक्यमनिष्टफलप्रदाय प्रतिपत्तव्यं न केवलमिति लक्ष्यते, भरतचक्रवर्त्यादीनां स्वाङ्गुलतो विंशत्यधिकाङ्गुलशतप्रमाणानामपि निर्णीतत्वात्, महावीरादीनां च केषाञ्चिन्मतेन चतुरशीत्याद्यङ्गलप्रमाणत्वात् । भवन्ति च विशिष्टाः स्वरादयः प्रधानफलदायिनः, यत उक्तम् -
अस्थिष्वर्थाः सुखं मांसे त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा सर्वं सत्त्वे प्रतिष्ठितम् ||१|| [ ] इति गाथार्थ: । 15 एतेनाङ्गुलप्रमाणेन षडगुलानि पादः, पादस्य मध्यतलप्रदेश: षडङ्गुलविस्तीर्णः पादैकदेशत्वात् पादः, द्वौ च युग्मीकृतौ पादौ वितस्ति: । द्वे च वितस्ती रत्निः, हस्त इत्यर्थः । रत्निद्वयं कुक्षि: । प्रत्येकं कुक्षिद्वयनिष्पन्नास्तु षट् प्रमाणविशेषा दण्डधनु- र्युग- नालिका -ऽक्ष- मुशललक्षणा भवन्ति, तत्राक्षो धूः, शेषाश्च गतार्थाः, द्वे धनुः सहस्रे गव्यूतम्, चत्वारि गव्यूतानि योजनम् ।
I
एतेणं आयंगुलप्पमाणेणं किं पओयणमित्यादि गतार्थम्, नवरं ये यदा मनुष्या भवन्ति तेषां तदा आत्मनोऽङ्गुलेन स्वकीयकालसम्भवीन्यवट - हदादीनि मीयन्त इति सण्टङ्कः । तत्र अवट: कूपः । तडागः खानितो जलाशयविशेषः । वाप्यः चतुरस्रा जलाशयविशेषाः । पुष्करिण्यो वृत्तास्ता एव, पुष्करवन्त्यो वा । दीर्घिकाः सारिण्यः ।
Jain Education International
For Private & Personal Use Only
३७४
10
20
www.jainelibrary.org