________________
३७३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एतं आयंगुलेणं मविजति । तथाऽद्यकालीनानि च योजनानि मीयन्ते । शेष निगदसिद्धं यावत् सेत्तं आयंगुले ।
हे० ३३३-३३८: तत्राङ्गुलस्वरूपनिर्धारणायाह- से किं तं अंगुले इत्यादि। अङ्गुलं त्रिविधं प्रज्ञप्तम्, तद्यथा- आत्माङ्गलम् उत्सेधाङ्गुलं प्रमाणाङ्गुलम् । तत्र 5 ये यस्मिन् काले भरत-सगरादयो मनुष्या: प्रमाणयुक्ता भवन्ति तेषां सम्बन्धी अत्रात्मा
गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलम्, अत एवाह- जे णमित्यादि, ये भरतादय: प्रमाणयुक्ता यदा भवन्ति तेषां तदा स्वकीयमङ्गुलमात्माङ्गुलमुच्यत इति शेष:, इदं च पुरुषाणां कालादिभेदेनानवस्थितमानत्वादनियतप्रमाणं द्रष्टव्यम् । अनेनैवात्माङ्गुलेन
पुरुषाणां प्रमाणयुक्ततादिनिर्णयं कुर्वन्नाह- अप्पणो अंगुलेणं दुवालसेत्यादि, 10 यद्यस्यात्मीयममुलं तेनात्मनोऽङ्गुलेन द्वादशाङ्गुलानि मुखं प्रमाणयुक्तं भवति,
अनेन च मुखप्रमाणेन नव मुखानि सर्वोऽपि पुरुषः प्रमाणयुक्तो भवति, प्रत्येक द्वादशाङ्गुलैर्नवभिर्मुखैरष्टोत्तरं शतमगुलानां संपद्यते, ततश्चैतावदुच्छ्रय: पुरुषः प्रमाणयुक्तो भवतीति परमार्थः । अथ तस्यैव मानयुक्तताप्रतिपादनार्थमाह- द्रोणिकः
पुरुषो मानयुक्तो भवति, द्रोणी जलपरिपूर्णा महती कुण्डिका, तस्यां प्रवेशितो यः 15 पुरुषो जलस्य द्रोणं पूर्वोक्तस्वरूपं निष्काशयति द्रोणेन जलस्योनां वा तां पूरयति स
द्रोणिकः पुरुषो मानयुक्तो निगद्यते इति भावः । इदानीमेतस्यैवोन्मानयुक्ततामाहसारपुद्गलरचितत्वात् तुलारोपित: सन्नर्द्धभारं तुलयन् पुरुष उन्मानयुक्तो भवति । तत्रोत्तमपुरुषा यथोक्तैः प्रमाण-मानोन्मानैः अन्यैश्च सर्वैरेव गुणैः सम्पन्ना एव
भवन्तीत्येतद्दर्शयन्नाह- माणुम्माण गाहा । अनन्तरोक्तस्वरूपैर्मानोन्मान-प्रमाणैर्युक्ता 20 उत्तमपुरुषा: चक्रवर्त्यादयो मुणितव्या इति सम्बन्धः, तथा लक्षणानि शङ्ख
स्वस्तिकादीनि, व्यञ्जनानि मष-तिलकादीनि, गुणाः क्षान्त्यादयः, तैरुपेताः, तथोत्तमकुलानि उग्रादीनि तत्प्रसूता इति गाथार्थः ।
___ अथात्माङ्गुलेनैवोत्तम-मध्यमा-ऽधमपुरुषाणां प्रमाणमाह- हुंति पुण गाहा, भवन्ति पुनरधिकपुरुषा उत्तमपुरुषाश्चक्रवर्त्यादयः अष्टशतमङ्गुलानाम् उव्विद्धा १. दुवालसे इत्यादि इति सर्वेष्वपि हस्तलिखितादर्शेषु पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org