________________
३६३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् अवमानविशेषा दण्ड-धनु-युग-नालिका-ऽक्ष-मुशलरूपाः षट् संज्ञा लभन्ते, अत एवाह- दंडं गाहा, दण्डं धनुर्युगं नालिकां चाक्षं मुशलं च करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया विजानीहीति सम्बन्धः । दण्डादिकं प्रत्येकं कथंभूतमित्याह - चतुर्हस्तम् । दशभिर्ना लिकाभिनिष्पन्नां रज्जु च 5 विजानीयवमानसंज्ञयेति गाथार्थः ।
ननु यदि दण्डादयः सर्वे चतुर्हस्तप्रमाणास्तषेकेनैव दण्डाद्यन्यतरोपादानेन चरितार्थत्वात् किमिति षण्णामप्युपादानम् ? उच्यते, मेयवस्तुषु भेदेन व्याप्रियमाणत्वात्, तथा चाह- वत्थुम्मि गाहा, वास्तुनि गृहभूमौ, मीयतेऽनेनेति मेयं मानमित्यर्थः,
लुप्तद्वितीयैकवचनत्वेन हस्तं विजानीहीति सम्बन्धः, हस्तेनैव वास्तु मीयत इति 10 तात्पर्यम्, क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तवंशलक्षणं दण्डमेव मानं विजानीहि, धनुरादीनां चतुर्हस्तत्वे समानेऽपि रूढिवशाद्दण्डसंज्ञाप्रसिद्धेनैवावमानप्रमाणेन विशेषेण क्षेत्रं मीयते इति हृदयम्, पथि मार्गविषये धनुरेव मानम्, मार्गगव्यूतादिपरिच्छेदो धनु:संज्ञाप्रसिद्धेनैवावमानविशेषेण क्रियते, न दण्डादिभिरिति भाव: । खातं च कूपादि
नालिकयैव यष्टिविशेषरूपया मीयत इति गम्यते । एवं युगादेरपि यस्य यत्र व्यापारो 15 रूढस्तस्य तत्र वाच्यः । यत् कथंभूतं हस्त-दण्डादिकमित्याहअवमानसंज्ञयोपलक्षितमिति गाथार्थः ।।
एतेनावमानप्रमाणेन किं प्रयोजनमित्यादि भावितार्थमेव, नवरं खातं कूपादि, चितं त्विष्टिकादिरचितं प्रासादपीठादि, क्रकचितं करपत्रविदारितं काष्ठादि, कटादय:
प्रतीता एव, परिक्षेपो भित्त्यादेरेव परिधिः नगरपरिखादिर्वा, एतेषां 20 खातादिसंश्रितानामभेदेऽपि भेदकल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति
तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति । तदेतदवमानमिति निगमनम् ।
से किं तं गणिमे इत्यादि, गण्यते सङ्ख्यायते वस्त्वनेनेति गणिमम् एकादि, अथवा गण्यते सङ्ख्यायते यत्तद्गणिमं रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह- जण्ण25 मित्यादि, गण्यते तद् गणिमम्, कथं गण्यते इत्याह- एक्को इत्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org