________________
अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९] |
३६२ तस्य चतुःषष्टितमभागनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलपरिमाणा अष्टभागिका, तस्या एव चतुर्थभागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, 5 इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका । द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ? अत्रोत्तरम्- एतेन रसमानप्रमाणेन वारक-घटक-करक-गर्गरी-दृतिक-करोडि-कुण्डिकासंश्रितानां रसानां रसस्य यन्मानं तदेव प्रमाणं तस्य निर्वृत्तिः सिद्धिस्तस्या लक्षणं परिज्ञानं भवति । 10 तत्रातीवविशालमुखा कुण्डिकैव करोडि उच्यते, शेषं प्रतीतम्, क्वचित् कलसिकेति दृश्यते, तत्र लघुतर: कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरमभ्यूह्यम्। सेतमित्यादि निगमनद्वयम् । ____ अथोन्मानमभिधित्सुराह - से किं तं उम्माणे इत्यादि। उन्मीयते तदित्युन्मानम्, उन्मीयते अनेनेति वा उन्मानमित्यादि । तत्र कर्मसाधनपक्षमधिकृत्याह- जं णं 15 उम्मिणिज्जईत्यादि, यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, तद्यथाअर्द्धकर्ष इत्यादि, पलस्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भाग: कर्षः, पलस्यार्द्धम् अर्द्धपलमित्यादि सर्वं मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरम् एलापत्र-कर्मारीपत्रादिकं पत्रम्, चोयओ फलविशेषः, मच्छण्डिका शर्कराविशेषः ।
___ अवमानं विवक्षुराह - से किं तं ओमाणे इत्यादि । अवमीयते परिच्छिद्यते 20 खाताद्यनेनेति अवमानं हस्त-दण्डादि, अथवा अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादि । तत्र कर्मसाधनपक्षमधिकृत्य तावदाह- जंणमित्यादि, यदवमीयते खातादि तदवमानम्, केनावमीयते इत्याह- हत्थेण वा दंडेण वा इत्यादि, तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विंशत्यङ्गुलमान:, अनेन च हस्तेन चतुर्भिर्हस्तैर्निष्पन्ना १. जइत्यादि जे२, पा१, २, मां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org