________________
३६१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते, अपि तु दो असतीओ पसती इत्यादिको यो विशिष्टः प्रकारस्तेनेति ।
तच्च पञ्चविधम्, तद्यथा- मानम् उन्मानम् अवमानं गणिमं प्रतिमानम्। पुनरपि मानप्रमाणं द्विधा- धान्यमानप्रमाणं च रसमानप्रमाणं च । तत्र मानमेव प्रमाणं 5 मानप्रमाणम्, धान्यविषयं मानप्रमाणं धान्यमानप्रमाणम्, तच्च दो असतीओ इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति: अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसृती सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वात्, अत इयं तत्प्रसिद्धा 10 काचिदवगन्तव्या, चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थ:, अमी चत्वार
आढक इत्यादि सूत्रसिद्धमेव यावदष्टभिराढकशतैर्निर्वृत्तो वाहः ।। ____ अत्राह शिष्य:- एतेन असत्यादिना धान्यमानप्रमाणेन किं प्रयोजनम्?, किमनेन विधीयते इत्यर्थः । अत्रोत्तरम्- एतेन धान्यमानप्रमाणेन मुक्तोली-मुरवेड्डरा
लिन्दा-ऽपवारिसंश्रितानां मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम् 15 इयत्तालक्षणं तदेव प्रमाणम्, तस्य निर्वृत्ति: सिद्धिस्तस्या लक्षणं परिज्ञानं भवति,
एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः । तत्र मुक्तोली मोट्टा, अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्ठिका मुरवः, गन्त्र्या उपरि यद्दीयते सुम्बादिव्यूतं ढञ्चनकादि तदिड्डरम्, अलिन्दकं कुण्डकम्, अपवारि दीर्घतरधान्यकोष्ठाकारविशेषः ।
रसमानप्रमाणमाह- से किं तमित्यादि, रसो मद्यादिस्तद्विषयं मानमेव प्रमाणं 20 रसमानप्रमाणम्, किमित्याह- धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं
चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते क्रियते तद् रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात् किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवः, अतो बहि:शिखाऽभावात् धान्यमानाच्चतुर्भागवृद्धिलक्षणया
अभ्यन्तरशिखया युक्तत्वाच्चाभ्यन्तरशिखायुक्तमित्युक्तम्, तद्यथा- चतुःषष्टिकेत्यादि । 25 इदमुक्तं भवति- षट्पञ्चाशदधिकशतद्वयपलमाना माणिका नाम वक्ष्यमाणं रसमानम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org