________________
३६०
अनुयोगद्वारसूत्रम् [ सू० ३१३-३२९ ] गंधपट्टक इत्यन्ये ।
[हे० ३१३-३२९] उक्तमुपक्रमान्तर्गतं द्वितीयं नामद्वारम् । अथ तदन्तर्गतमेव क्रमप्राप्तं तृतीयं प्रमाणद्वारमभिधित्सुराह- से किं तं पमाणे इत्यादि । प्रमीयते परिच्छिद्यते धान्यद्रव्याद्यनेनेति प्रमाणम् असति-प्रसृत्यादि, अथवा इदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत् प्रमाणं 5 यथोक्तमेव, यदि वा धान्यद्रव्यादेरेव प्रमिति: परिच्छेद: स्वरूपावगम: प्रमाणम्, अत्र पक्षेऽसति-प्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तच्च प्रमाणं द्रव्यादिप्रमेयवशाच्चतुर्विधम्, तद्यथा- द्रव्यविषयं प्रमाणं द्रव्यप्रमाणम्, एवं क्षेत्र-काल-भावप्रमाणेष्वपि वाच्यम् ।
__तत्र द्रव्यप्रमाणं द्विविधं प्रदेशनिष्पन्नं विभागनिष्पन्नं च । तत्र प्रदेशा एक- 10 द्वि-त्र्याधणवः, तैर्निष्पन्नं प्रदेशनिष्पन्नम् । तत्रैकप्रदेशनिष्पन्न: परमाणुः, द्विप्रदेशनिर्वृत्तो द्विप्रदेशिकः, प्रदेशत्रयघटितस्त्रिप्रदेशिकः, एवं यावदनन्तैः प्रदेशैः सम्पन्नोऽनन्तप्रदेशिकः । नन्विदं परमाण्वादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवम्, प्रमेयस्यापि द्रव्यादेः प्रमाणतया रूढत्वात्, तथाहि- प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो 15 भवन्ति- प्रस्थकादिरयं पुजीकृतस्तिष्ठतीति, ततश्चैक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात् परमाण्वादिद्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेक-द्वि-त्र्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु तत्स्वरूपयोगादुपचारत:, भावसाधनतायां तु प्रमितेः प्रमाण-प्रमेयाधीनत्वादुपचारादेव प्रमाण-प्रमेययोः प्रमाणताऽवगन्तव्या । तदेवं 20 कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः। इदं च यथोत्तरमन्यान्यसङ्ख्योपेतैः स्वगतैरेव प्रदेशनिष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तम् ।
द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो भङ्गो विकल्प: प्रकार इति यावत्, तेन निष्पन्नं विभागनिष्पन्नम्, तथाहि- न धान्यमानादे: 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org