SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३५९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् से किं तं उम्माणप्पमाणे ? उम्माणप्पमाणे, उन्मीयतेऽनेन उन्मीयत इति व उन्मानं तुला-कर्षादि सूत्रसिद्धम् । नवरं पत्रम् एलापत्रादि, चोयओ ह(फ)लविशेष:, मच्छंडिया सक्कराविसेसो । से किं तं ओमाणप्पमाणे ? ओमाणप्पमाणे, अवमीयते तथावस्थितमेव 5 परिच्छिद्यतेऽनेन अवमीयत इति वाऽवमानं हस्तेन क्षेत्रादि । चतुर्हस्ता दण्डादय: सर्वेऽपि विषयभेदेन मानचिन्तायामुपयुज्यन्त इति भेदोपन्यास: । खातं खातमेव, चितं इष्टकादि, करकचितं करपत्रविदारितम्, कट-पटादि प्रकटार्थमेव । __ से किं तं गणिमे ? गणिमे, गणिमं सङ्ख्याप्रमाणमेकादि तत्परिच्छिन्नं वा वस्तु । अनेन च भृतक-भृति-भक्त-वेतनका-ऽऽय-व्ययनिर्विसंसृतानां द्रव्याणां 10 गणितप्रमाणनिर्वृत्तिलक्षणं भवति । अत्र भृतकः कर्मकरः, भृति: वृत्तिः, भक्तं भोजनम्, वेतनं कुविन्दादे:, भृतित्वे सत्यपि विशेषेण लोकप्रतीतत्वाद् भेदाभिधानम्, एतेषु चाऽऽय-व्यय[निर्वि]संसृतानां प्रतिबद्धानामित्यर्थः गणितप्रमाणनिर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतदवमानम् । से किं तं पडिमाणप्पमाणे ? पडिमाणप्पमाणे, प्रतिमीयतेऽनेन गुञ्जादिना 15 प्रतिरूपं वा मानं प्रतिमानम् । तत्र गुञ्जेत्यादि, गुञ्जा चणोट्ठिया, सपादा गुंजा कागणी, निप्फावो वल्लो, तिण्णि णिप्फावा कम्ममासओ, चउकागणिको त्ति वुत्तं भवति, बारस कम्ममासगा मंडलओ, छत्तीसं णिप्फावा अडयालीसं कागणीओ सोलस मासगा सुवण्णो । अमुमेवार्थं दर्शयति- पंच गुंजाओ इत्यादि, एवं चतुः कर्ममासकः काकण्यपेक्षया, एवम् अष्टचत्वारिंशद्भिः काकणीभि: मण्डलक:, 20 भवतीति शेष: । रजतं रूप्यम्, चन्द्रकान्तादयो मणयः, शिला राजपट्टक:, १. अत्रेदमवधेयम्- हा० वृत्तेः संशोधने जे१, जेर, पा० इति हस्तलिखितादर्शत्रयमत्रास्माभिरुपयुक्तम् । तत्रापि तालपत्रोपरि लिखितो जे१ आदर्श एव मुख्यः, कागदपत्रोपरि लिखितं जे२, पा० इति आदर्शद्वयं जे१ आदर्शमेव अनुसरतीति अस्माकं मतम् । जे१ आदर्शः क्वचिच्छुद्धः क्वचिदशुद्ध इति शुद्धाशुद्धः। अतो यत्र आदर्शत्रयेऽपि एकरूप एव अशुद्धः पाठः इति भाति तत्र प्र० इति संकेतोऽस्माभिर्विहितः। प्र०= तिसृष्वपि हस्तलिखितादर्शप्रतिषु विद्यमानः पाठ इति सर्वत्रापि प्र० शब्देन ज्ञेयम् । कोणेट्ठिया प्र० ॥ २. रूपं प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy