________________
अनुयोगद्वारसूत्रम् [ सू० ३३०-३३२ ] . ३६४ एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि गतार्थमेव, नवरं भृतकः कर्मकरः, भृति: पदात्यादीनां वृत्तिः, भक्तं भोजनम्, वेतनकं कुर्विन्दादिना व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु विषये आय-व्ययनिर्विसंश्रितानां प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाणेन निर्वृत्तिलक्षणम् इयत्तावगमरूपं भवति । तदेतद् गणिममिति ।
अथ प्रतिमानप्रमाणं निरूपयितुमाह - से किं तं पडिमाणे इत्यादि । 5 मीयतेऽनेनेति मानम्, मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं गुञ्जादि, अथवा प्रतिमीयते तदिति प्रतिमानम् । तत्र गुञ्जा चणोठिया १, सपादा गुञ्जा काकणी २, सत्रिभागकाकण्या त्रिभागोनगुञ्जाद्वयेन वा निर्वृत्तो निष्पाव: ३, त्रयो निष्पावा: कर्ममाषक: ४, द्वादश कर्ममाषका एको मण्डलक: ५, षोडश कर्ममाषका एक: सुवर्ण: ६ । अमुमेवार्थं किञ्चित् सूत्रेऽप्याह- पंच गुंजाओ इत्यादि, पञ्च गुञ्जा 10 एक कर्ममाषकः, अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एक: कर्ममाषकः । इदमुक्तं भवति- अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु, पूर्वोक्तानुसारेण न कश्चिदर्थभेद इति। एवं चउक्को कम्ममासओ इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाच्चतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदम्, ते द्वादश कर्ममाषका एको मण्डलकः, 15 एवमष्टचत्वारिंशत्काकणीभिर्मण्डलको ‘भवति' इति शेषः, भावार्थः पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णः, भावार्थः स एव । एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यांदि गतार्थम्, नवरं रजतं रूप्यम्, मणय: चन्द्रकान्तादयः, शिला राजपट्टकः, गन्धपट्ट इत्यन्ये । शेषं प्रतीतं यावत् तदेतत् प्रतिमानप्रमाणम्, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपि 20 विभागनिष्पन्नं द्रव्यप्रमाणम्, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ।
[सू० ३३०] से किं तं खेत्तप्पमाणे? खेत्तप्पमाणे दुविहे पण्णत्ते। १. "न्दादीनां खंसं० ॥ २. क्वचित् काकणी क्वचिच्च काकिणी इत्युभयथा पाठो हस्तलिखितादर्शेषु अनैयत्येन उपलभ्यते, शब्दकोशेष्वपि उभयथा पाठो दृश्यते, अत उभयविधः पाठः शुद्धः । अस्माभिः 'काकणी' इति पाठो मूले सर्वत्र मुद्रितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org