________________
आमुखम्
अपरं यदावेदनीयं तत् प्रथमविभागस्य आमुखे आवेदितमेव, किञ्चित्तु अस्मिन् द्वितीये विभागे गुर्जरभाषानिबद्धायां प्रस्तावनायामावेदितं तत् तत्रैव विलोकनीयं जिज्ञासुभिः ।
___ अत्र उपयुक्तानां हस्तलिखितादर्शानां सङ्केतादिकं प्रथमविभागे चू० हा०हे० प्रारम्भे एव टिप्पणेषु स्पष्टीकृतम् । यत्र हस्तलिखितादर्शेषु समान एव अशुद्धः पाठः तत्र टिप्पणे ह० इति संकेतः प्रथमविभागे विहितः। द्वितीयविभागे तु प्र० इति संकेतो विहित इति ध्येयम् । चू०हा०हे. हस्तलिखितादर्शानामन्ते यादृशाः पाठास्ते तत्र तत्र समाप्तौ दर्शिताः । नवसु परिशिष्टेषु यद् यद् वर्तते तत् तस्य तस्य परिशिष्टस्य प्रारम्भे एव वर्णितम् ।
धन्यवादः - अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायकाः - अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजभूताः प्रेरकाश्च स्व० आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागाः । एतद्ग्रन्थसंशोधनोपयोगिनी विविधा सामग्री महता परिश्रमेण तैरेव प्राधान्येन संगृहीताऽऽसीत् । अस्य मूलमात्रस्य अनुयोगद्वारसूत्रस्य त्रिंशतो वर्षेभ्यः प्राक् अतिविशिष्टरूपेण संशोधकाः सम्पादकाश्चापि त एव । अत एवाद्यसंशोधकत्वेन तेषां नामोल्लेखोऽस्माभिर्विहितः । अतो विशेषेण तेषां चरणयोर्वन्दनं विदधामि ।
___ परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्र पालिताणानगरे पौषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते ।
लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति ।
ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तः ।
एवमेव मम मातुः साध्वीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम् ।
श्रीमहावीरजैनविद्यालयस्य कार्यवाहकैः महता द्रव्यव्ययेन साध्यस्य एतन्मुद्रणादिकस्य व्यवस्था स्वीकृता । अतस्तेभ्योऽपि भूयो भूयो धन्यवादान् वितरामि ।
एतेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते । अनेकेभ्यो वर्षेभ्यः प्राक् आगमोद्धारकैराचार्यश्री सागरानन्दसूरिभिः महान् ग्रन्थराशिः महता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org