________________
श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः । श्री चिन्तामणिपार्श्वनाथाय नमः ।
श्री महावीरस्वामिने नमः । श्री गौतमस्वामिने नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपद्मेभ्यो नमः । पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्येभ्यो नमः । पूज्यपादसद्गुरुदेवमुनिराजश्री भुवनविजयजीपादपद्मभ्यो नमः ।
आमुखम् । अनन्तोपकारिणः परमकृपालोः परमात्मनः पूज्यपादानां परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री १००८ भुवनविजयजीतातपादानां च कृपया साहाय्येन च श्रीजिनदासगणिमहत्तरविरचिताम् अनुयोगद्वारचूर्णिं याकिनीमहत्तरासून्वाचार्यप्रवरश्री हरिभद्रसूरिविरचितां विवृतिम् आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितां बृहतीं वृत्तिं च तालपत्रोपरिलिखितविविधादर्शानुसारेण संशोध्य सम्पाद्य च तत्समलङ्कृतस्य अनुयोगद्वारसूत्रस्य प्रथमो विभागः कतिपयमासेभ्यः प्राक् प्रकाशितः । सम्प्रति तस्यैव द्वितीयं विभागम् आगमाभ्यासिनाम् आगमभक्तानां पुरत उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।.
चत्वारि अनुयोगद्वाराणि - उपक्रमः १, निक्षेपः २, अनुगमः ३, नयः ४ । तत्र उपक्रमस्यापि आनुपूर्वी १, नाम २, प्रमाणम् ३, वक्तव्यता ४,अर्थाधिकारः ५, समवतारः ६ इति षट् प्रतिद्वाराणि। अनुयोगद्वारसूत्रे सर्वमीलनेन ६०६ सूत्राणि सन्ति । तेषु १ तः ३१२ यावत् नामद्वारपर्यन्तमेव अनुयोगद्वारसूत्रं प्रथमे विभागे प्रकाशितम् । सम्प्रति ३१३ तः ६०६ यावत् अपरमवशिष्टमनुयोगद्वारसूत्रमस्मिन् द्वितीये विभागे नवभिः परिशिष्टैः सह प्रकाश्यते । यत्र किञ्चिद् विशिष्टं टिप्पनं लिखितं तत्र 9 एतादृशं स्वस्तिकचिह्नं कृतमस्ति अस्मिन् द्वितीये विभागे । तत्र विशेषजिज्ञासुभिः द्वितीयविभागस्य पञ्चमं परिशिष्टं विलोकनीयम् ।
__ आगमप्रभाकरपूज्यमुनिराजश्री पुण्यविजयजीमहाभागैः पं० दलसुखभाई मालवणियापं० अमृतलाल मोहनलाल भोजकसहकारेण तालपत्राद्युपरिलिखितान् विविधानादर्शानवलम्ब्य महता परिश्रमेण संशोधनं सम्पादनं च विधाय त्रिंशतो वर्षेभ्यः प्राग् विक्रमसं. २०२४ मध्ये मुंबईनगरस्थितस्य श्री महावीरजैनविद्यालयस्य जैन-आगम-ग्रन्थमाला ग्रन्थाङ्क १ मध्ये अनुयोगद्वारसूत्रम् प्रकाशितमासीत् । तदेवात्रास्माभिः मूलरूपेण स्वीकृतमस्ति । तत्रस्थानि सर्वाणि पादटिप्पणानि प्रथमपरिशिष्टमध्येऽत्रास्माभिः सूत्राङ्कानुसारेणोपदर्शितानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org