________________
६४३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
सम्यग्-ज्ञान-विशुद्धसंयम-तपः-स्वाचारचर्यानिधिः शान्त: श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः ॥७॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् । स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः ॥८॥ श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः । ट्ठम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुध: ? ॥९॥
तथाहि - आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्ज्वलवच:पीयूषपानोद्यतैगीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥१०॥ कृत्वा येन तप: सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं यस्याऽऽशास्वनिवारितं विचरति श्वेतांशुगौरं यश: ॥११॥ यमुनाप्रबाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं पवित्रितं येन भुवनतलम् ॥१२॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थिति: सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्णः समुयोतितो मार्गः सोऽभयदेवसूरिरभवत्तेभ्य: प्रसिद्धो भुवि ॥१३॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org