________________
६४४
अनुयोगद्वारसूत्रम् [ सू० ६०६] तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्टजनतुष्टयै । .. श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः ॥१४॥
॥ अनुयोगद्वारवृत्तिः समाप्ता ।। अत्र प्रत्यक्षरगणनया ग्रन्थाग्रम् ५७०० । शिवमस्तु श्री चतुर्विधसंघस्य ॥
888888888888
१. अयं पार मध्ये पाठः ॥ २. इतः परं पार मध्ये मौलिलालित इति पाठो वर्तते, ततः परं त्रुटितं पत्रम् ॥ __ ग्रन्थाग्रं ५७०० । संवत् १३०१ वर्षे आषाढ सुदि १० शुक्रे अद्येह धवलक्ककनगरनिवासिना प्राग्वाटवंशोद्भवेन व्य० पासदेव सुत गन्धिक श्रे० धीणाकेन बृहद्माता सीद्धाश्रेयोऽर्थ ससूत्रा मलधारिश्रीहेमचन्द्रसूरिविरचिता अनुयोगद्वारवृत्तिलेखयांचक्रे ॥छ।। मंगलं महाश्रीः । शुभं भवतु चतुर्विधश्रीश्रवणसंघस्य ॥छ। - खं० ॥
ग्रंथाग्रं ५८८८ । संवत् १४८० वर्षे कार्तिकवदि १२ रवौ महं भीमासुतहरिदासेन लिखितं। शुभं भवतु कल्याणमस्तु मंगलमस्तु श्रीसंघस्य भद्रं भूयात् ॥छ।।श्रीः॥छ|श्रीः॥छ।।श्रीः॥छ।। श्रीः॥छ।।श्रीः॥ - पा१ । इतः परं पा१ मध्ये ४३ श्लोकप्रमिता महती प्रशस्तिवतेते ।
ग्रंथाग्रं ५८०० । मंगलमस्तु श्रीसंघस्य ॥छ।। श्री श्रीमालकुले सुधांशुविमले जातः पुरा विश्रुतो मन्त्रीशः सउंराभिधो जिनपदाम्भोजैकभृङ्गः सुधीः । जायाऽजायत तस्य निर्मलमतिर्जासीति राशीकृतश्रेयांसौ भुवि रत्ल-सामल इति ख्यातौ तदीयौ सुतौ ॥१॥ सामलस्य गृहिणी किल सीता देव्यभूदकुटिलाशयसौम्या। बाल्यतोऽपि जिनधर्मवासिता भासितोभयकुला सुनिर्मला ॥२॥ पुत्री तयोर्गुणवती ........ श्रीजैनशासनसुधारसतृप्तचित्ता वारु इति स्फुटतपोनियमादिपुण्यसंसाधनेऽतिनिपुणप्रगुणस्वभावा ॥३॥ अनुजौ जयतस्तस्याः काला-कर्माभिधावुभौ । श्रीमद्देव-गुरूपास्तिपुण्यकर्मणि कर्मठौ ॥४॥ गिरिमा ध्वारौपशारदशशिभ्यः । ज्ञानाराधनपुण्यं श्रुत्वा श्रीअमरसिंहसूरिभ्यः ॥५॥ अनुयोगद्वाराणां वारुनाम्न्या विशुद्धभावेन । भुज-बाणरत्नवर्षेषु पुस्तकोऽलेख्यताषाढे ॥ स्वस्त्यस्तु निर्मलधियां भविनां जिनेन्द्रवाणीरसप्रणयिनां दृढभक्तिभाजां । ये पाठयन्ति च पठन्त्यपि लेखयन्ति ये वाचयन्ति च जिनागममेकचित्ताः ॥७॥ शुभं भवतु । संवत् १४५२ वर्षे आषाढसुदि ९ गुरौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org