________________
६४१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-ल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि, तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धिः, उक्तं च
हयं नाणं कियाहीणं हया अन्नाणओ किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥१॥ संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य.पंगू य वणे समेच्चा ते संपउत्ता नयरं पविट्ठा ॥२॥
[आवश्यकनि० १०१-१०२] इत्यादि । अत्राह- नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्ति: प्रत्येकमसती समुदायेऽपि 10 कथं स्यात्? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा
प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्तं च
पत्तेयमभावाओ निव्वाणं समुदियासु वि न जुत्तं ।
नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥ 15
विशेषावश्यकभा० ११६३] उच्यते- स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोषः, आह
.
च
20
देसोवगारिया
वीसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायंमि संपुण्णा ॥१॥
.. [विशेषावश्यकभा० ११६४] अत: स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति तत्त्वम् । तथा च पूज्या:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org