________________
६४०
अनुयोगद्वारसूत्रम् [ सू० ६०६] तत्कारणम्, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्र्यनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति। ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः ।
, ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति 5 शिष्यजनसम्मोहमाशङ्कय ज्ञान-क्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह - सव्वेसिपि गाहा, व्याख्या- न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य-विशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनी प्रोक्तिं निशम्य श्रुत्वा तदिह सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह- यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र 10 ज्ञानम्, तयोस्तिष्ठतीति चरण-गुणस्थ:, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधु: मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि- यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्या: पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाह-पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षण- 15 ज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि, तस्मात् सर्वत्र ज्ञान-क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेनिनिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे 20 यस्तदनन्तरभावित्वलक्षणो हेतुरुक्त: सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहि- स्त्री-भक्ष्यभोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धरसिद्धो हेतुः, यथा च १. शिष्यकजन खमू० पार ॥ २. स्थितिप जे२ पा१ मां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org