________________
६३९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ज्ञानकार्यत्वेन गौणत्वात् तयोरिति गाथार्थः ।
विचारितं ज्ञाननयमतेन सामायिकम्, अथ क्रियानयमतेन तद्विचार्यते- तत्रासौ क्रियैव सकलपुरुषार्थसिद्धेः प्रधानं कारणमिति मन्यमानो ज्ञाननयमतव्याख्यातामेतामेव
गाथामाह- नायम्मीत्यादि, इयं च क्रियानयमतेनेत्थं व्याख्यायते- इह ज्ञाते ग्रहीतव्ये 5 अग्रहीतव्ये चैवार्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमेव प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्येति, एवमत्र व्याख्याने एवकार: स्वस्थान एव योज्यते, एवं च सति ज्ञातेऽप्यर्थे क्रियैव साध्या, ततो ज्ञानं क्रियोपकरणत्वाद्गौणमित्यत: सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणमित्येवं य उपदेशः स नयः प्रस्तावात् क्रियानय, शेषं
पूर्ववत्, अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति- ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, 10 यत आगमेऽपि तीर्थकर-गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेव उक्तम्,
सुबहु पि सुयमहीयं किं काही चरणविप्पमुक्कस्स?।। अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥१॥ [आवश्यकनि० ९८] नाणं सविसयनिययं न नाणमित्तेण कज्जनिप्पत्ती। .. मगण्णू दिलुतो होइ सचिट्ठो अचिट्ठो य ॥२॥ [आवश्यकनि० ११५७] जाणतोऽवि य तरिउँ काइयजोगं न जुंजई जो उ। । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥३॥ [आवश्यकनि० ११६०] जहा खरो चंदणभारवाही[आवश्यकनि० १००]त्यादि तथा अन्यैरप्युक्तम्
क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । 20, यतः स्त्री-भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेद् ॥१॥ [ ] इति ।
एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपा चारित्रक्रिया न प्राप्तेति, तस्माद् 25 क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम्, प्रयोगश्चात्र-यद् यत्समनन्तरभावि तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org