SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ६३८ अनुयोगद्वारसूत्रम् [ सू० ६०६] प्रयत्न: कार्य इति, इति एवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः, स किमित्याह- नय इति प्रस्तावाज्ज्ञाननयो नामेति शिष्यामन्त्रणे इत्यक्षरघटना । भावार्थस्त्वयम्- इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयतिनन्वैहिका-ऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्- पढमं नाणं तओ दये[दशवै० 5 ४।१०]त्यादि जं अन्नाणी कम्मं खवेइ[कल्पभा० ११७०] त्यादि, तथा अपरमप्युक्तम् पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खंमि । विणयस्स य पडिवत्ती तिन्नि वि नाणे समप्पंति ॥१॥ [ ] तथा अन्यैरप्युक्तम्विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । 10 मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनाद् ॥१॥ [ ] इति । इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर-गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्धः, तथा च तद्वचनम् गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ। एत्तो तइयविहारो नाणुन्नाओ जिणवरेहिं ॥१॥ कल्पभा० ६८८, ओपनि० १२१] न यस्मादन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्ति: संजायते यावदखिलजीवादि- 20 वस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम्, तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम्, प्रयोगश्चात्र- यद् येन विना न भवति तत् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्कुरः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधे सामायिके सम्यक्त्वसामायिक-श्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन प्रधानमुक्तिकारणत्वात्, देशविरति-सर्वविरतिसामायिके तु नेच्छति, 25 ___15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy