________________
६३७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणाम्, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात्, सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्यावस्थापकं हेतुमुत्पश्यामः, अथापि स्यात् - असंख्येयत्वेऽप्येषां 5 सकलनयसङ्ग्राहिभिर्नयैर्विचारो विधीयते, ननु तेषामपि सङ्ग्राहिनयानामनेकविधत्वात्
पुनरनवस्थैव, तथाहि- पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च- एक्केक्को य सयविहो सत्त नयसयां हवंति एमेवे [आवश्यकनि० ७५९] त्यादि, सप्तानां च नयशतानां
सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं 10 नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्ग्राहिणौ पुनरपि द्रव्य
पर्यायास्तिको नयौ ज्ञान-क्रियानयौ वा निश्चय-व्यवहारौ वा शब्दा-ऽर्थनयौ वेत्यादि इति सङ्ग्राहकनयानामप्यनेकविधत्वात् सैवानवस्था । अहो अतिनिपुणमुक्तम्, किन्तु प्रक्रान्ताध्ययने सामायिकं विचार्यते, तच्च मुक्तिफलम्, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं
रूपं तदेव विचारणीयम्, तच्च ज्ञानक्रियात्मकमेव ततो ज्ञान-क्रियानयाभ्यामेवास्य 15 विचारो युक्ततरो नान्यः ।
तत्र ज्ञाननयो ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थमाह - णायम्मि गाहा । व्याख्या- ज्ञाते सम्यग् अवगते गिण्हियव्वे ग्रहीतव्ये, उपादेय इत्यर्थः, अग्रहीतव्ये अनुपादेये, स च हेय उपेक्षणीयश्च द्वयोरप्यग्रहणाविशेषात्,
चशब्द उक्तसमुच्चये, अथवा अग्रहीतव्यशब्देन हेय एवैको गृह्यते उपेक्षणीयं 20 त्वनुक्तमप्ययमेव चकार: समुच्चिनोति एवो गाथालङ्कारमात्रे, अत्थंमि त्ति अर्थे ऐहिकामुष्मिके, तत्र ऐहिको ग्रहीतव्य: सक्-चन्दना-ऽङ्गनादिः, अग्रहीतव्योऽहि-विषकण्टकादिः, उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्य: सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः, एवंभूतेऽर्थे यतितव्यमेवेति,
अत्रैवकारोऽवधारणे, तस्य च व्यवहित: प्रयोगः, तद्यथा ज्ञात एवेति, तदयमर्थः25 ग्राह्याग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्ति-परिहारोपेक्षार्थिना यतितव्यं प्रवृत्त्यादिलक्षण:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org