________________
६३६
अनुयोगद्वारसूत्रम् [ सू० ६०६] नावगच्छामः, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य च प्रक्रान्तसामायिकाध्ययनस्य विचारणाऽमीषां प्रयोजनम् । पुनरप्याह- नन्वेषा नयैर्विचारणा किं प्रतिसूत्रमभिप्रेता सर्वाध्ययनस्य वा ? यद्याद्यः पक्ष: स न युक्तः प्रतिसूत्रं नयविचारस्य न नया समोयरंति इह [आवश्यकनि० ७६२] मित्यनेन निषिद्धत्वाद्, अथापर: पक्ष: सोऽपि न युक्तः, समस्ताध्ययनविषयस्य नयविचारस्य 5 प्रागुपोद्घातनिर्युक्तौ नए समोयारणाणुमए इत्यत्रोपन्यस्तत्वात्, न च सूत्रव्यतिरिक्तमध्ययनमस्ति यन्नयैर्विचार्यते, अत्रोच्यते, यस्तावत् प्रतिसूत्रं नयविचारनिषेधः प्रेर्यते तत्राविप्रतिपत्तिरेव, किं च आसज्ज उ सोयारं नए नयविसारओ बूया [आवश्यकनि० ७६१] इत्यनेनापवादिकः सोऽनुज्ञात एव, यदप्युच्यते समस्ताध्ययनविषयस्य नयविचारस्य प्रागुपोद्घातेत्यादि तत् समयानभिज्ञस्यैव वचनम्, 10 यस्मादिदमेव चतुर्थानुयोगद्वारं नयवक्तव्यताया मूलस्थानम्, अत्र सिद्धानामेव च तेषां तत्रोपन्यासः, यदप्युक्तम्- न च सूत्रव्यतिरिक्तमध्ययनमित्यादि, तदप्यसारम्, समुदायसमुदायिनोः कार्यादिभेदतः कथञ्चिद्भेदसिद्धेः, तथाहि- प्रत्येकावस्थायामनुपलब्धमप्युद्वहनसामर्थ्यलक्षणं कार्यं शिबिकावाहकपुरुषसमुदाये उपलभ्यते, एवं च प्रत्येकसमुदितावस्थयोः कार्यभेदः शिबिकावाहनादिषु सामर्थ्यासामर्थ्य लक्षणो 15 विरुद्धधर्माध्यासश्च दृश्यते, यदि चायमपि न भेदकस्तर्हि सर्वं विश्वमेकं स्यात्, ततश्च सहोत्पत्त्यादिप्रसङ्गः, तस्मात् कार्यभेदाद्विरुद्धधर्माध्यासाच्च समुदाय-समुदायिनोर्भेदः प्रतिपत्तव्यः, एवं सङ्ख्या-संज्ञादिभ्योऽपि तद्भेदो भावनीयः, तस्मात् कश्चित् क्वचित् सूत्रविषय: समस्ताध्ययनविषयश्च नयविचारो न दुष्यति, भवत्वेवं तथाऽप्यध्ययनं नयैर्विचार्यमाणं किं सर्वैरेव विचार्यते ? आहोस्वित् कियद्भिरेव ? यदि सर्वैरिति पक्ष: 20 स न युक्तः तेषामसङ्ख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, तथाहि- यावन्तो वचनमार्गास्तावन्त एव नया:, यथोक्तम् -
जावइया वयणपहा तावइया चेव होंति नयवाया ।..
जावइया नयवाया तावइया चेव परसमया ॥१॥ [सम्मति० ३।४७] १. सू० ६०४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org