SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ६३५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् भिन्नप्रवृत्तिनिमित्तत्वात्, सुर-मनुजादिशब्दवत्, तथाहि इन्दतीति इन्द्रः, शक्नोतीति शक्रः, पुरं दारयतीति पुरन्दर:, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे अतिप्रसङ्गः घट-पटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यदा इन्द्रशब्दः शक्रशब्देन सहैकार्थ उच्यते तदा वस्तुन: परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे 5 सङ्क्रमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तच्चासम्भवित्वादवस्तु, न हि य एव परमैश्वर्यपर्याय: स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्यापत्तितोऽतिप्रसङ्गादित्यलं विस्तरेण । उक्तः समभिरूढः । वंजणअत्थेत्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं य: शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमैवं भूतं 10 प्राप्तमिति कृत्वा, ततश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्, तमेवं भूत: प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते । स एवंभूतो नय: किमित्याह- , व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्द:, अर्थस्तु तदभिधेयवस्तुरूप:, व्यञ्जनं चार्थश्च व्यञ्जनार्थो, तौ च तौ तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देश: 15 प्राकृतत्वात्, व्यञ्जनार्थतदुभयं विशेषयति नैयत्ये स्थापयति, इदमत्र हृदयम् शब्दमर्थेनार्थं च शब्देन विशेषयति यथा घट चेष्टायाम् [पा०धा०८१२], घटते योषिन्मस्तकाद्यारूढश्चेष्टत इति घट इति, अत्र तदैवासौ घटो घटः यदा योषिन्मस्तकाद्यारूढतया जलाहरणचेष्टावान् नान्यदा, घटध्वनिरपि चेष्टां कुर्वत एव तस्य वाचको नान्यदेत्येवं चेष्टावस्थातोऽन्यत्र घटस्य घटत्वं घटशब्देन निवर्त्यते, 20 घटध्वनेरपि तदवस्थातोऽन्यत्र घटेन स्ववाचकत्वं निवर्त्यत इति भावः इति गाथार्थः । उक्ता मूलनया: । एषां चोत्तरोत्तरभेद-प्रभेदा आवश्यकादिभ्योऽवसेयाः । एते च सावधारणा: सन्तो दुर्नयाः, अवधारणविरहितास्तु सुनया:, सर्वैश्च सुनयैर्मीलितैः स्याद्वाद इत्यलं बहुभाषितया ।। अत्राह कश्चित्- ननूक्ता एते नया:, केवलं प्रस्तुते किमेतैः प्रयोजनमिति १. स्तमेव जे१, जेमूर, पा२ ॥ २. प्राकृतत्वात्तद्वयंजनार्थ जे२ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy