________________
६३४
अनुयोगद्वारसूत्रम् [ सू० ६०६] इति भावः, अथवा ऋजु अवक्रं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च -
सुयनाणे य नेउन्नं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥१॥ [ ] ति,
अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति परकीयस्य 5 स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरं च- भिन्नलिङ्गैर्भिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नाम-स्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्ग-वचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नाम-स्थापनाद्रव्याणि च नाभ्युपगमिष्यतीति भावः इत्युक्त ऋजुसूत्रः ।
10 अथ शब्द उच्यते, तत्र शप आक्रोशे पा०धा० १०६९, १२४४], शप्यते अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि- तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्री-पुरुष-नपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुरव 15 इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात् पुरुष: पुरुषा इत्यादिवदिति, नामस्थापना-द्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, खपुष्पवदिति, प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्ग-वचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः ।
वत्थूओ इत्यादि, वस्तुनः इन्द्रादे: सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम्, 20 भवति अवस्तु असंभवीत्यर्थः, क्वेत्याह- नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति समभिगच्छति प्रतिपद्यत इति समभिरूढः, अयमत्र भावार्थ:- इन्द्र-शक्र-पुरन्दरादिशब्दान् अनन्तरं शब्दनयेन एकाभिधेयत्वेनेष्टानसौ विशुद्धतरत्वात् प्रत्येकं भिन्नाभिधेयान् प्रतिपद्यते, १. अथ ऋजु जे२ पा१ मामू० ॥ २. अवस्त्वसंभवतीत्यर्थः खं० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org