________________
६३३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् वस्तूनि परिच्छिनत्तीति नैगमः, इतीयं नैगमस्य निरुक्ति: व्युत्पत्तिः, अथवा निगमा लोके वसामि तिर्यग्लोके वसामीत्यादय: पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः । शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत वक्ष्येऽहमिति गाथार्थः । .. यथाप्रतिज्ञातमेवाह- संगहियगाहा, व्याख्या सम्यग् गृहीत उपात्त: सगृहीत: 5 पिण्डित एकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत् सगृहीतपिण्डितार्थ
सङ्ग्रहस्य वचनं सङ्ग्रहवचनं समासत: संक्षेपतो ब्रुवते तीर्थकर-गणधराः, अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सगृहीतसामान्यार्थमेव भवति, अत एव सगृह्णाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते,
युक्तिश्चात्र लेशत: प्राग्दर्शितैव ।। 10 वच्चईत्यादि, निराधिक्ये, चयनं चय: पिण्डीभवनम्, अधिकश्चयो निश्चय:
सामान्यम्, विगतो निश्चयो विनिश्चयो विसामान्यभावः, तदर्थं तन्निमित्तं व्रजति प्रवर्तते, सामान्याभावायैव सर्वदा यतते व्यवहारो नय इत्यर्थः, क्व ? सर्वद्रव्येषु सर्वद्रव्यविषये, लोके हि घट-स्तम्भा-ऽम्भोरुहादयो विशेषा एव प्रायो
जलाहरणादिक्रियासूपयुज्यमाना दृश्यन्ते न पुनस्तदतिरिक्तं सामान्यम्, अतो 15 लोकव्यवहारानङ्गत्वात् सामान्यमसौ नेच्छतीति भावः, अत एव लोकव्यवहारप्रधानो
नयो व्यवहारनयोऽसावुच्यते, युक्तिश्चात्रापि लेशत: प्रागुक्तैव । अथवा विशेषेण निश्चयो विनिश्चयः आगोपालाङ्गनाद्यवबोधो न कतिपयविद्वत्सम्बद्धः, तदर्थं व्रजति व्यवहारनय: सर्वद्रव्येषु, इदमुक्तं भवति- यद्यपि निश्चयेन घटादिवस्तूनि सर्वाण्यपि
प्रत्येकं पञ्चवर्णानि द्विगन्धानि पञ्चरसान्यष्टस्पर्शानि तथाऽपि गोपालाङ्गनादीनां यत्रैव 20 क्वचिदेकस्मिन् स्थूले नीलवर्णादौ विनिश्चयो भवति तमेवासौ सत्त्वेन प्रतिपद्यते न शेषान्, लोकव्यवहारपरत्वादेवेति गाथार्थः ।
पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिMणितव्यः,
तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु अकुटिलं वर्तमानकालभावि वस्तु 25 सूत्रयतीति ऋजुसूत्रः, अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वाद् असदभ्युपगमश्च कुटिल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org