________________
अनुयोगद्वारसूत्रम् [ सू० ६०६]
६३२ चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादहतोऽपि भगवत: समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोदिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति । तस्मात् क्रियैव प्रधानमैहिका-ऽऽमुष्मिकफलकारणमिति स्थितम् । इति जो उवएसो सो णओ णामन्ति, इति एवमुक्तन्यायेन 5 य उपदेश: क्रियाप्राधान्यख्यापनपर: स: नयो नाम, क्रियानय इत्यर्थः। अयं च सम्यक्त्वादौ चतुर्विधेऽपि सामायिके देशविरति-सर्वविरतिसामायिकद्वयमेवेच्छति, क्रियात्मकत्वादस्य, सम्यक्त्वसामायिक-श्रुतसामायिके तु तदर्थमुपादीयमानत्वादप्रधानत्वाद् नेच्छति, गुणभूते वेच्छतीति गाथार्थ: । उक्त: क्रियानय: ।
__ इत्थं ज्ञान-क्रियास्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- 10 किमत्र तत्त्वम्, पक्षद्वयेऽपि युक्तिसम्भवात् ?। आचार्यः पुनराह- सव्वेसि पि गाहा, अथवा ज्ञान-क्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह- सव्वेसि पि गाहा, सर्वेषामिति मूलनयानाम्, अपिशब्दात् तद्भेदानां च नयानां द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां क: कं साधुमिच्छतीत्यादिरूपां निशम्य श्रुत्वा तत् सर्वनयविशुद्धं 15 सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ।
॥ समाप्तेयं शिष्यहिता नामानुयोगद्वारटीका ॥ ॥ कृति: सिताम्बराऽऽचार्यजिनभटपादसेवकस्याऽऽचार्यहरिभद्रस्य ॥ कृत्वा विवरणमेतत् प्राप्तं यत् किञ्चिदिह मया कुशलम् ।
20 अनुयोगपुरेशत्वं लभतां भव्यो जनस्तेन ॥१॥
[हे० ६०६] अथ नयद्वारमभिधित्सुराह - से किं तं नए इत्यादि । अथ कोऽयं पूर्वोक्तशब्दार्थो नय: ? तत्रोत्तरोत्तरभेदापेक्षया सप्तव मूलभूता नया मूलनयाः, तद्यथा नैगम इत्यादि । तत्र नैगमं व्याचिख्यासुराह- णेगेहिमित्यादि गाथा, व्याख्या- न 25 एकं नैकं प्रभूतानीत्यर्थः, नैकैर्मानैः महासत्ता-सामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org