________________
६३०
अनुयोगदारसूत्रम् [ सू० ६०६] समासत: प्रोच्यन्ते- ज्ञाननय: क्रियानयश्च । तत्र ज्ञाननयदर्शनमिदम्- ज्ञानमेव प्रधानमैहिका-ऽऽमुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात् । तथा चाह- णायम्मि त्ति ज्ञाते सम्यक् परिच्छिन्ने गेण्हितव्वे ति ग्रहीतव्ये उपादेये अगिहियव्वम्मि त्ति अग्रहीतव्ये अनुपादेये, हेये इत्यर्थः । चशब्दः खलुभयोर्ग्रहीतव्याऽग्रहीतव्ययोर्ज्ञातव्यत्वानुकर्षणार्थ: उपेक्षणीयसमुच्चयार्थो वा । एवकारस्त्ववधारणार्थः, 5 तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये [अग्रहीतव्ये च,] तथोपेक्षणीये च ज्ञात एव नाज्ञाते, अत्थम्मि त्ति अर्थे ऐहिका-ऽऽमुष्मिके । तत्र ऐहिक: ग्रहीतव्यः सक्-चन्दना-ऽङ्गनादिः, अग्रहीतव्यो विष-शस्त्र-कण्टकादिः, उपेक्षणीयस्तृणादिः; आमुष्मिको ग्रहीतव्य: सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिः, उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति । तस्मिन्नर्थे यतितव्यमेवेति अनुस्वारलोपाद् यतितव्यम् एवं 10 अनेन प्रकारेण, ऐहिका-ऽऽमुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलक्षण: प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात् । तथा चान्यैरप्युक्तम् -
विज्ञप्ति: फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥ [
15 तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यम्, तथा चाऽऽगमोऽप्येवमेव व्यवस्थितः । यत उक्तम् -
पढमं नाणं तओ दया, एवं चिट्ठति सव्वसंजए। अण्णाणी किं काहिति किं वा नाहिति छेय-पावयं ॥१॥ [दशवै० ४।१०]
इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर-गणधरैरगीतार्थानां केवलानां 20 विहारक्रियाऽपि निषिद्धा । तथा चाऽऽगम: -
गीयत्थो य विहारो बीओ गीयत्थमीसिओ भणिओ । एत्तो तइयविहारो णाणुण्णाओ जिणवरेहिं॥१॥कल्पभा०६८८, ओघनि०१२१]
न ह्यन्धेनान्ध: समाकृष्यमाण: सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्राय: । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं 25
.]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org