________________
६२९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
वचन-पर्याय-ध्वनिवाच्ये(च्यत्वे)न च प्रत्युत्पन्नं वर्तमानं नय: । कः? शप आक्रोशे [पा०धा० १०६९,१२४४], शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव । तथाहि- अयं नाम-स्थापना-द्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात्, खपुष्पवत्, न च भिन्न[लिङ्ग-वचनमेकम्], लिङ्ग-वचनभेदादेव, 5 स्त्री-पुरुषवत् कुट-वृक्षवद्, अतो घट: [कुट:] कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः ।
___ वत्थूओ गाहा । वस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनः घटाख्यस्य सङ्क्रमणम् अन्यत्र कुटाख्यादौ गमनं भवति अवस्तु,
असदित्यर्थः, नये पर्यालोच्यमाने, कस्मिन् ? नानार्थसमभिरोहणात् समभिरूढस्तस्मिन्। 10 इयमत्र भावना- घटः [कुट:] कुम्भ इत्यादिशब्दान् भिन्नप्रवृत्तिनिमित्तत्वाद्
भिन्नार्थगोचरानेव मन्यते, घट-पटादिशब्दानिव । तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा कुट कौटिल्ये [पा०धा० १४५४], कुटनात् कुटः, कौटिल्ययोगात् कुट इति, तथा उभ उम्भ पूरणे [पा०धा० १४०५-१४०६], कुम्भनात् कुम्भ:,
कुत्सितपूरणादित्यर्थः । ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा वस्तुन: कुटादेस्तत्र 15 सङ्क्रान्ति: कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण । उक्तः समभिरूढः ।
__ वंजण इत्यादि, व्यज्यते व्यनक्तीति वा व्यञ्जनं शब्द:, अर्थस्तु तद्गोचरः, तच्च तद् उभयं च तदुभयं शब्दार्थलक्षणम् एवम्भूतो नय: विशेषयति । इदमत्र
हृदयम्- शब्दमर्थेन विशेषयति, अर्थं च शब्देन, घट चेष्टायाम् [पा० धा० ८१२] 20 इत्यत्र चेष्टया घटचेष्टं (घटशब्दं?) विशेषयति, घटशब्देनापि चेष्टाम्, न स्थान
भरणक्रियाम्, ततश्च यदा योषिन्मस्तकव्यवस्थितश्चेष्टावानर्थो घटशब्देनोच्यते तदा स घट:, तद्वाचकश्च शब्दः, अन्यदा वस्त्वन्तरस्येव चेष्टाऽयोगादघटत्वं तद्धवनेश्चावाचकत्वमिति गाथार्थः। इत्थं तावदुक्ता नयाः, भेद-प्रभेदास्तु
विशेषश्रुतादवसेया: । 25 साम्प्रतं एत एव ज्ञान-क्रियाधीनत्वाद् मोक्षस्य ज्ञान-क्रियानयद्वयान्तर्भावद्वारेण
Jain Education International
For Private & Personal Use Only
For Private & Personal use only
www.jainelibrary.org