________________
६२८
10
卐
__ . अनुयोगद्वारसूत्रम् [ सू० ६०६] निश्चय: सामान्यम्, विगतो निश्चयो विनिश्चयः विगतसामान्यभावः, तदर्थं तन्निमित्तम्, सामान्याभावायेति भावना, व्यवहारो नय:, क्व? सर्वद्रव्येषु सर्वद्रव्यविषये । तथा च विशेषप्रतिपादनपरः खल्वयं सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यम्, तस्य व्यवहारापेतत्वात् । तथा च सामान्य विशेषेभ्यो भिन्नम् अभिन्नं वा स्याद् ? । यदि भिन्नम्, विशेषव्यतिरेकेणोपलभ्येत । 5 अथाभिन्नम्, विशेषमात्रं तत्, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति । अथवा विशेषेण निश्चयो विनिश्चय: - आगोपालाङ्गनाद्यवबोधः, न कतिपयविद्वत्सम्बद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु । आह च भाष्यकारः -
भमरादिपंचवण्णादिणिच्छए जम्मि वा जणवयस्स । अत्थे विणिच्छओ सो विणिच्छियत्थो त्ति जो गज्झो ॥१॥ बहुतरओ त्ति य तं चिय गमेइ संते वि सेसए मुयइ ।।
संववहारपरतया ववहारो लोगमिच्छंतो ॥२॥ [विशेषावश्यकभा० २२२०२२२१] इत्यादि । उक्तो व्यवहार इति गाथार्थः । .
पच्चुप्पण्णग्गाही गाहा । साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रति प्रति वोत्पन्नं प्रत्युत्पन्नं भिन्नव्यक्तिस्वामिकमित्यर्थः, तद् ग्रहीतुं शीलमस्येति 15 प्रत्युत्पन्नग्राही ऋजुसूत्रः ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः । तत्र ऋजु वर्तमानं अतीता-ऽनागतपरित्यागाद् वस्त्वखिलं तत् सूत्रयति गमयतीति ऋजुसूत्रः । यद्वा ऋजु वक्रविपर्ययाद् अभिमुखम्, श्रुतं तु ज्ञानम्, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् । अयं हि नय: वर्तमानं स्वलिङ्ग-वचन-नामादिभिन्नमप्ये वस्तु प्रतिपद्यते, शेषमवस्त्विति । तथाहि- अतीतमेष्यं(ष्यद्?) वा न भावः, विनष्टा- 20 ऽनुत्पन्नत्वाददृश्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु, निष्फलत्वात्, खपुष्पवत्; तस्माद् वर्तमानं स्वं वस्तु । तच्च न लिङ्गादिभिन्नमपि स्वरूपमुज्झति- लिङ्गभिन्नं तटस्तटी तटमिति, वचनभिन्नमापो जलम्, नामादिभिन्नं नाम-स्थापना-द्रव्य-भावा इति। उक्त ऋजुसूत्रः । .... इच्छति प्रतिपद्यते विशेषिततरं नाम-स्थापना-द्रव्यविरहेण समानलिङ्ग- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org