________________
६२७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
[हा० ६०६] से किं तं नये इत्यादि । शब्दार्थः पूर्ववत् । सप्त मूलनया: प्रज्ञप्ताः, तद्यथा- नैगम इत्यादि । तत्थ णेगेहिं ति, न एकं नैकम्, प्रभूतानीत्यर्थः, तै: कैः ? मानैः महासत्ता- सामान्य-विशेषज्ञानैमिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः । निगमेषु वा भवो नैगमः, निगमा: पदार्थपरिच्छेदाः । तत्र 5 सर्वत्र सदित्येवमनुगताकारा[वबोधहेतुभूतां महासत्तामिच्छति अनुवृत्त-व्यावृत्ता]
वबोधहेतुभूतं च सामान्यविशेषं द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्तं विशेषम् । आह- इत्थं तर्हि अयं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवम्, सामान्य-विशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात् तस्येति । आह च भाष्यकारः -
जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे । .. मण्णइ अच्चंतमओ मिच्छद्दिट्टी कणादो व्व ॥१॥ [विशेषाश्यकभा० २१९४] दोहि वि णएहिं णीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णोण्णणिरवेक्खा ॥२॥
[विशेषांश्यकभा० २१९५, सन्मति०का०३ गा० ४९] __ अथवा निलयन-प्रस्थक-ग्रामोदाहरणेभ्योऽध: प्रतिपादितेभ्य: खल्वयमवसेय इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । सेसाणमित्यादि, शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत, वक्ष्ये अभिधास्ये इत्ययं गाथार्थः ।।
___ संगहित गाहा, आभिमुख्येन गृहीत: उपात्त: सगृहीतः, पिण्डित: एकजातिमापन्नः अर्थः विषयो यस्य तत् सगृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं 20 समासत: सझेपत: ब्रुवते तीर्थकर-गणधरा इति । एतदुक्तं भवति- सामान्यप्रतिपादनपर:
खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते, न विशेषम् । तथा च मन्यते- विशेषा: सामान्यतोऽर्थान्तरभूताः स्यु: ? अनर्थान्तरभूता वा ? यद्यर्थान्तरभूताः, न सन्ति, सामान्यादर्थान्तरत्वात्, खपुष्पवत् । अथानन्तरभूताः, सामान्यमानं तदव्यतिरिक्तत्वात्,
स्वरूपवत् । पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 25 वच्चइ इत्यादि । व्रजति इच्छति निर् आधिक्ये, चयनं चयः, अधिकश्चयो
१. वेक्खो जेमू१ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org