________________
६२३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति- मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम्
वा सूत्रालापकनिक्षेपस्य ? कश्च सूत्रस्पर्शकनिर्युक्तेः ? किं वा नयैर्विषयीक्रियते ? उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नाम स्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति, शेषस्तु पदार्थ पदविग्रहादिनियोगः सर्वोऽपि 5 सूत्रस्पर्शकनिर्युक्तेः, वक्ष्यमाणनैगमादिनयानामपि प्राय: स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शकनिर्युक्त्यन्तर्भाविन एव नया:, आह च भाष्यकार:होइ कत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणिओगं ॥१॥ सुत्तप्फासियनिज्जुत्तिणिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ २॥
10
15
20
[विशेषवश्यकभा०१००९-१०१०]
अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत् समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः -
सुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो ।
卐
सुत्तफासियनिज्जुती नया समगं तु वच्चति ॥ १॥ [विशेषावश्यकभा० १००१?] इत्यलं विस्तरेण । सेतं अणुगमे त्ति अनुगमः समाप्तः ।
[सू० ६०६ ] से किं तं गए ? सत्त मूलणया पण्णत्ता । तंजहागमे संग ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूते । तत्थ
१
गेहिं माणेहिं मिणइ त्ती णेगमस्स य निरुत्ती १ । सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं ॥ १३६ ॥ | संगहियपिंडियत्थं संगहवयणं समासओ बेंति २ । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ३ ॥१३७॥
'स्पर्शिक० जे१, पार ।
Jain Education International
** 'गमे च खंसं० ॥ *** 'स्पर्शिक' जे१ ॥
+
For Private & Personal Use Only
—
www.jainelibrary.org