________________
अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५]
६२२ यदुतैतत् स्वसमयगतजीवाद्यर्थप्रतिपादकं पदं स्वसमयपदम्, परसमयगतप्रधानेश्वराद्यर्थप्रतिपादकं पदं परसमयपदम् । अनयोरेव मध्ये परसमयपदं देहिनां कुवासनाहेतुत्वाद्बन्धपदमितरत्तु सद्बोधकारणत्वान्मोक्षपदमिति तावदेके । अन्ये तु व्याचक्षते प्रकृति-स्थित्यनुभाव-प्रदेशलक्षणभेदभिन्नस्य बन्धस्य प्रतिपादकं पदं बन्धपदम् कृत्स्नकर्मक्षयलक्षणस्य मोक्षस्य प्रतिपादकं पदं मोक्षपदमिति ।
5 ___ आह- नन्वत्र व्याख्याने बन्ध-मोक्षप्रतिपादकं पदद्वयं स्वसमयपदान्नातिरिच्यते तत् किमिति भेदेनोपन्यास: ? सत्यम्, किन्तु स्वसमयपदस्याप्यभिधेयवैचित्र्यदर्शनार्थो भेदेनोपन्यासः, अत एव सामायिकप्रतिपादकं पदं सामायिकपदमित्यादावपि भेदेनोपादानं सार्थकमिति । सामायिकव्यतिरिक्तानां नारक-तिर्यगाद्यर्थानां प्रतिपादकं पदं नोसामायिकपदमित्येतच्च सूत्रोच्चारणस्य फलं दर्शितम् । इदमुक्तं भवति- यत: " सूत्रे समुच्चारिते स्वसमयपदादिपरिज्ञानं भवति ततस्तदुच्चारणीयमेव, ततस्तस्मिन् सूत्रे उच्चारितमात्र एव सति केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकारा अधिगता: परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति, ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थं पदेन पदं वर्तयिष्यामि एकैकं पदं .. व्याख्यास्यामीत्यर्थः ।
तत्र व्याख्यालक्षणमेव तावदाह- संहिया येत्यादि, तत्रास्खलितपदोच्चारणं संहिता, यथा करोमि भयान्त सामायिकमित्यादि । पदं तु करोमीत्येकं पदम्, भयान्त इति द्वितीयम्, सामायिकमिति तृतीयम् इत्यादि । पदार्थस्तु करोमीत्यभ्युपगमः, भयान्त इति गुर्वामन्त्रणम्, समस्याऽऽय: सामायिकमित्यादिकः । पदविग्रह: समासः, स 20 चानेकपदानामेकत्वापादानविषयो यथा भयस्यान्तो भयान्त इत्यादि । सूत्रस्यार्थस्य वा अनुपपत्त्युद्भावनं चालना । तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः । एते च चालना-प्रसिद्धी आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव विस्तरवत्यौ द्रष्टव्ये। एवं षड्विधं विद्धि जानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद्गम्यते इति श्लोकार्थः।
अत्राह- नन्वस्या: षड्विधव्याख्याया मध्ये कियान् सूत्रानुगमस्य विषय: को 25
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org