________________
६२१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते, तच्चायुक्तम्, वस्तूनामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति ३१ । यत्र सन्धिप्राप्तौ तं न करोति दुष्टं वा करोति तत्र सन्धिदोष: ३२ । एते द्वात्रिंशत् सूत्रदोषा:, एतैर्विरहितं यत्तल्लक्षणयुक्तं सूत्रम् ।।
अष्टाभिश्च गुणैरुपपेतं यत्तल्लक्षणयुक्तमिति वर्तते । ते चेमे गुणा:निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवणीयं सोवयारं च मियं महुरमेव य ॥१॥ [आवश्यकनि०८८५]
तत्र निर्दोषं सर्वदोषविप्रमुक्तम् १ । सारवद् गोशब्दवद् बहुपर्यायम् २ । हेतव: अन्वयव्यतिरेकलक्षणास्तैर्युक्तम् ३ । उपमोत्प्रेक्षाधलङ्कारैरलङ्कृतम् ४ । 10 उपनयोपसंहतमुपनीतम् ५ । ग्राम्यभणितिरहितं सोपचारम् ६ । वर्णादिनियतपरिमाणं मितम् ७ । श्रवणमनोहरं मधुरम् ८ ।
अन्यैश्च कैश्चिद् षड् गुणा: सूत्रस्य पठ्यन्ते, तद्यथाअप्पक्खरमसंदिद्धं सारवं विस्सओमुहं ।
अत्थोभमणवज्जं च सुत्तं सव्वण्णुभासियं ॥१॥ [आवश्यकनि०८८६] 15 तत्राल्पाक्षरं मिताक्षरं यथा सामायिकसूत्रम्, असन्दिग्धं सैन्धवशब्दवद्यल्लवण
वसन-तुरगाद्यनेकार्थसंशयकारि न भवति, सारवत्त्वं पूर्ववत्, विश्वतोमुखं प्रतिसूत्रं चरणानुयोगाद्यनुयोगचतुष्टयव्याख्याक्षमम्, यथा धम्मो मंगलमुक्कट्ठ [दशवै० १।१] इत्यादि श्लोके चत्वारोऽप्यनुयोगा व्याख्यायन्ते, अथवा अनन्तार्थत्वाद् यतो विश्वतोमुखं तत:
सारवदित्येवं सारवत्त्वस्यैव हेतुभावेनेदं योज्यते, अस्मिंश्च व्याख्याने पञ्चैवैते गुणा 20 भवन्ति, स्तोभका: चकार-वाशब्दादयो निपातास्तैर्वियुक्तमस्तोभकम्, अनवद्यं
कामादिपापव्यापाराप्ररूपकम्, एवंभूतं सूत्रं सर्वज्ञभाषितमिति । यैस्तु पूर्वे अष्टौ सूत्रगुणा: प्रोक्तास्तेऽनन्तरश्लोकोक्तगुणांस्तेष्वेवाष्टसु गुणेष्वन्तर्भावयन्ति, ये त्वनन्तरश्लोकोक्तानेव सूत्रगुणानिच्छन्ति ते अमीभिरेव पूर्वोक्तानामष्टानामपि सङ्ग्रह
प्रतिपादयन्ति । 25 एवं च सूत्रानुगमे समस्तदोषविप्रमुक्ते लक्षणयुक्ते सूत्रे उच्चारिते ततो ज्ञास्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org