________________
अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५]
६२० रस-गन्ध-रूप-शब्दा इति वक्तव्ये स्पर्श-रूप-शब्द-गन्ध-रसा इति ब्रूयात् इत्यादि १३ । वचनभिन्नं यत्र वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिता इत्यादि १४ । विभक्तिभिन्नं यत्र विभक्तिव्यत्ययः, यथा वृक्षं पश्य इति वक्तव्ये वृक्ष: पश्य इति ब्रूयादित्यादि १५ । लिङ्गभिन्नं यत्र लिङ्गव्यत्ययः, यथा अयं स्त्रीत्यादि १६ । अनभिहितं स्वसिद्धान्तेऽनुपदिष्टम्, यथा सप्तम: पदार्थो वैशेषिकस्य, प्रकृति-पुरुषाभ्यधिकं 5 साढयस्य, दुःख-समुदय-मार्ग-निरोधलक्षणचतुरार्यसत्यातिरिक्तं वा बौद्धस्येत्यादि १७ । यत्रान्यच्छन्दोऽधिकारेऽन्यच्छन्दोऽभिधानं तदपदम्, यथाऽऽर्यापदेऽभिधातव्ये वैतालीयपदमभिदध्यादित्यादि १८, यत्र वस्तुस्वभावोऽन्यथास्थितोऽन्यथाऽभिधीयते तत् स्वभावहीनम्, यथा- शीतो वह्निः, मूर्तिमदाकाशमित्यादि १९ । यत्र प्रकृतमुत्सृज्याऽप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमुच्यते तद्व्यवहितम् २० । कालदोषो 10 यत्रातीतादिकालव्यत्ययः यथा रामो वनं प्रविवेशेति वक्तव्ये रामो वनं प्रविशतीत्याह २१ । यतिदोषोऽस्थानविरति: सर्वथाऽविरतिर्वा २२ । छवि: अलङ्कारविशेषस्तेन शून्ये छविदोष: २३ । समयविरुद्धं स्वसिद्धान्तविरोद्धि यथा साङ्ख्यस्यासत् कारणे कार्य वैशेषिकस्य वा सदिति २४ । वचनमात्र निर्हेतुकम्, यथा कश्चिद्यथेच्छया कञ्चित् प्रदेशं लोकमध्यतया जनेभ्य: प्ररूपयति २५ । यत्रार्थापत्त्याऽनिष्टमापतति तदर्थापत्तिदोषो 15 यथा गृहकुक्कुटो न हन्तव्य इत्युक्तेऽर्थापत्त्या शेषघातोऽदुष्ट इत्यापतति २६ । यत्र समासविधिप्राप्तौ समासं न करोति तत्रासमासदोष: २७ । उपमादोषो यत्र हीनोपमा क्रियते यथा मेरु: सर्षपोपमः, अधिकोपमा वा क्रियते यथा सर्षपो मेरुसन्निभः, अनुपमा वा यथा मेरुः समुद्रोपम इत्यादि २८ । रूपकदोष: स्वरूपभूतानामवयवानां व्यत्ययो यथा पर्वते रूपयितव्ये शिखरादीस्तदवयवान् रूपयति अन्यस्य वा समुद्रादेः 20 सम्बन्धिनोऽवयवाँस्तत्र रूपयतीति २९ । निर्देशदोषो यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्त: स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतिशब्दं नाभिधत्ते ३० । पदार्थदोषो यत्र वस्तु पर्यायोऽपि सन् पदार्थान्तरत्वेन कल्प्यते यथा सतो भाव: सत्तेति १. "कुर्कुटो जे१,२, पा२ ॥ २. 'यत्र समासविधिप्राप्तौ समासं न करोति, व्यत्ययेन वा करोति तत्रासमासदोषः" इति विशेषावश्यकभाष्यस्य मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ गा० ९९९ ॥ ३. प्ररूपयि खं० । वर्णयि पार ॥ ४. निरूप जे२ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org