SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ६१९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् तत्रानृतमभूतोद्भावनं भूतनिह्नवश्च, यथा ईश्वरकर्तृकं जगदित्याद्यभूतोद्भावनम्, नास्त्यात्मेत्यादिकस्तु भूतनिह्नव: १। उपघात: सत्त्वघातादिः, तज्जनकं यथा वेदविहिता हिंसा धर्माय' इत्यादि २ । निरर्थकं यत्र वर्णानां क्रमनिर्देशमात्रमुपलभ्यते न त्वर्थः, यथा अ आ इ ईत्यादि डित्थादिवद्वा ३ । असम्बद्धार्थकमपार्थक, यथा- दश दाडिमानि, 5 षडपूपाः, कुण्डमजाजिनं पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि ४ । यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघात: कर्तुं शक्यते तच्छलम्, यथा नवकम्बलो देवदत्त इत्यादि ५ । जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं दुहिलम्, यथा एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुता: ॥१॥ पिब खाद च चारुलोचने यदतीतं वरगात्रि तन्न ते । न हि भीरु गतं निवर्तते समुदयमात्रमिदं कलेवरम् ॥२॥ [ ] इत्यादि ६ । . वेदवचनादिवत् तथाविधयुक्तिरहितं परिफल्गु निःसारम् ७ । अक्षरपदादिभिरतिमात्रमधिकम् ८, तैरेव हीनमूनम्, अथवा हेतोर्दृष्टान्तस्य वाऽऽधिक्ये 15 सत्यधिकम्, यथा- अनित्यः शब्दः कृतकत्व-प्रयत्नानन्तरीयकत्वाभ्यां घट पटवदित्यादि। एकस्मिन् साध्ये एक एव हेतुर्दृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येक द्वयाभिधानादाधिक्यमिति भावः । हेतु-दृष्टान्ताभ्यामेव हीनमूनम्, यथा- अनित्यः शब्दो घटवदिति, तथा- अनित्यः शब्दः कृतकत्वादित्यादि ९ । पुनरुक्तं द्विधा शब्दतोऽर्थतश्च, तथाऽर्थादापन्नस्य पुनर्वचनं पुनरुक्तम्, तत्र शब्दत: पुनरुक्तं यथा घटो 20 घट इत्यादि, अर्थत: पुनरुक्तं यथा घट: कुट: कुम्भ इत्यादि, अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्युक्ते अर्थादापन्नं रात्रौ भुङ्क्त इति, तत्रार्थापन्नमपि य एतत् साक्षाद् ब्रूयात्तस्य पुनरुक्तता १० । व्याहतं यत्र पूर्वेण परं विहन्यते यथा कर्म चास्ति फलं चास्ति कर्ता न त्वस्ति कर्मणाम् [ ] इत्यादि ११ । अयुक्तमनुपपत्तिक्षम यथा तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः [ ] इत्यादि १२ । 25 क्रमभिन्नं यत्र क्रमो नाराध्यते यथा स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणामाः स्पर्श १. यथा जे१,२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy