________________
अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५]
६१८ इति । तदेवमेतद्गाथाद्वयव्याख्याने उपोद्घातनियुक्तिः समर्थिता भवति, अस्यां च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यतामानीतं भवति । तत: प्रत्यवयवं सूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनिर्युक्तेरवसर: संपद्यते । सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽप्यवसप्राप्त एव, ततस्तमभिधित्सुराह - सुत्तं उच्चारेयव्वं अखलियमित्यादि ।
5 ___ आह- ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शकनियुक्त्या प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता ? यावता सूत्रानुगमं निर्दिश्य पश्चात् किमिति नोच्यते ? सत्यम्, किन्तु नियुक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः ।
प्रकृतमुच्यते- तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग् द्रव्यावश्यकविचारे कृता तथैव द्रष्टव्या, अयं च सूत्रदोषपरिहार: शेषसूत्रलक्षणस्योपलक्षणम्, तच्चेदम्- 10
अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥१॥ [आवश्यकनि०८८०]
अस्या व्याख्या- अल्पग्रन्थं च तत् महार्थं चेति समाहारद्वन्द्वः, उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्थ० ५।२९ ] इत्यादिवत् सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः । यच्च द्वात्रिंशद्दोषविरहितं तत् सूत्रं भवति, के पुनस्ते द्वात्रिंशद्दोषा: ये 15 सूत्रे वर्जनीया: ? उच्यते
अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमहियमूणं पुणरुत्तं वाहतमजुत्तं ॥१॥ कमभिन्नवयणभिन्न विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपदमेव य सभावहीणं ववहियं च ॥२॥ कालजतिच्छविदोसो समयविरुद्धं च वयणमेत्तं च । अत्थावत्तीदोसो नेओ असमासदोसो य ॥३॥ उवमारूवगदोसो निद्देसपयत्थसंधिदोसो य ।।
एते उ सुत्तदोसा बत्तीसं हुंति नायव्वा ॥४॥ [आवश्यकनि०८८१-८८४] १. 'शिक जे२, मां० पा१,२ ॥ २. "र्शिक' पा१ ॥ ३. ग्रंथं महार्थ जे१ । ग्रंथं च महार्थं खं०॥ ४. एते य सुत्त जे२ मां० पा१ ॥
सते.
श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org