________________
६१५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
सामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमोऽनुगत: प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च।
उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्य:, तद्यथा- उद्देसे गाहा, 5 किं कइविहं गाहा, व्याख्या- उद्देशनमुद्देश: सामान्याभिधानरूपो यथा अध्ययनमिति. वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो विशेषाभिधानं यथा सामायिकमिति । अत्राह- ननु सामान्य-विशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव तत् किमितीह पुनरुच्यते ? नैतदेवम्, यतोऽत्र सिद्धस्यैव तस्य तत्र निक्षेपमात्राभिधानं
कृतमित्यदोषः । तथा निर्गमनं निर्गम: कुत: सामायिकं निर्गतमित्येवंरूपो वक्तव्य:, 10 तथा क्षेत्र-कालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ । यद्वक्ष्यत्यावश्यके
वइसाहसुद्धएक्कारसीएँ पुव्वण्हदेसकालंमि। महसेणवणुज्जाणे अणंतर परंपर सेसं ॥१॥ [आवश्यकनि०७३४] ति ।
तथा कुतः पुरुषात् तन्निर्गतमिति वक्तव्यम्, तथा केन कारणेन गौतमादयः सामायिकं भगवत: समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यम्, यदभिधास्यति15 गोय[म] माई सामाइयं तु किंकारणं निसामिती [आवश्यकनि०७४५] त्यादि, तथा
प्रत्यायतीति प्रत्यय: केन प्रत्ययेन भगवतेदमुपदिष्टम् ? केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच् कृण्वन्ति, इत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति
केवलनाणि त्ति अहं अरहा सामाइयं परिकहेइ ।
तेसिं पि पच्चओ खलु सव्वनू तो निसामिति ॥१॥ [आवश्यकनि०७५०] त्ति। 20 तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणम्, श्रुतसामायिकस्य
जीवादिपरिज्ञानम्, चारित्रसामायिकस्य सावधविरतिः, देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम्, निर्देक्ष्यति च- सद्दहण जाणणा खलु विरई मीसं च लक्खणं कहए [आवश्यकनि०७५३] इत्यादि । एवं नैगमादयो नया वाच्याः । तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, यतो निवेदयिष्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org