________________
६१४
अनुयोगद्वारसूत्रम् [ सू० ६०१-६०५] ततस्तेषामनधिगतानामर्थाधिकाराणामभिगमनार्थं पदेन [पदं] पदसम्बन्धनीत्या प्रतिपदं वा वर्तयिष्याम: व्याख्यास्यामः ।
साम्प्रतं व्याख्यालक्षणमेवाऽऽह- संघिता य इत्यादि । तत्रास्खलितपदोच्चारणं संहिता। पर: सन्निकर्षः संहिता [पा० १।४।१०९] इति वचनात्, यथा-करोमि भदन्त! सामायिकमित्यादि । पदानि तु- करोमि भदन्त ! सामायिकम् । पदार्थस्तु- 5 करोमीत्यभ्युपगमे, भदन्त ! इत्यामन्त्रणम्, समभाव: सामायिकमिति । पदविग्रहस्तु प्राय: समासविषयः, पदयोः पदानां [वा] विच्छेदोऽनेकार्थसम्भवे सति इष्टार्थनियमाय क्रियते, यथा-राज्ञः पुरुषो राजपुरुषः, श्वेत: पटोऽस्येति श्वेतपट इत्यादिसमासभाक्पदविषयः । सूत्रानुपपत्तिचोदना चालना, तद्व्यवस्थापनं प्रसिद्धि:, यथा-करोमि भदन्त ! सामायिकमित्यत्र गुर्वामन्त्रणवचनो भदन्तशब्द इत्युक्ते सत्याह- 10 गुरुविरहे करणे निरर्थकोऽयमिति, न, स्थापनाचार्यभावेन हृद्गताचार्यामन्त्रणेन च विनयोपदर्शनार्थ इति सार्थकः । एवं षड्विधं विद्धि विजानीहि लक्षणम्, व्याख्याया इति प्रक्रमाद् गम्यते, वाचकादिपदादिस्वरूपं त्वावश्यके स्वस्थान एव प्रपञ्चेन वक्ष्याम:, गमनिकामात्रमेतदिति । उक्तोऽनुगमः ।।
हे० ६०१-६०५] अथ तृतीयमनुयोगद्वारं निरूपयितुमाह - से किं तं 15 अणुगमे इत्यादि। अनुगम: पूर्वोक्तशब्दार्थः, स द्वेधा सूत्रानुगमः सूत्रव्याख्यानमित्यर्थः, निर्युक्त्यनुगमश्च, नितरां युक्ता: सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता अर्थास्तेषां युक्तिः स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य लोपान्नियुक्तिः, नाम-स्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्या वा अनुगमो व्याख्यानं निर्युक्त्यनुगम:, स च त्रिविधः । निक्षेपो नाम-स्थापनादिभेदभिन्न:, तस्य तद्विषया वा नियुक्तिः पूर्वोक्तशब्दार्था 20 निक्षेपनियुक्तिः, तद्रूपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः, तथा उपोद्धननं व्याख्येयस्य सूत्रस्य व्याख्याविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिरुपोद्घातनियुक्तिः, तद्रूपस्तस्या वा अनुगम: उपोद्घातनिर्युक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका, सा चासौ नियुक्तिश्च सूत्रस्पर्शकनियुक्तिः । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति- अत्रैव प्रागावश्यक- 25 १. स्पर्शिक' जे१,२,पा१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org