________________
६१३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
द्वाभ्यां गाथाभ्यामनुगन्तव्यः, तद्यथा- उद्देसे गाहा, किं कइविहं गाहा, इदं गाथाद्वयमतिगम्भीरार्थम्, मा भूदव्युत्पन्नविनेयानां मोह इत्यावश्यके [आवश्यकनि० १४०-१४१] प्रपञ्चेन व्याख्यास्यामः ।
सूत्रस्पर्शनियुक्त्यनुगमस्तु सति सूत्रे भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त 5 एव, तत्रेत्थं सूत्रमुच्चारयितव्यम्- अक्खलितमित्यादि यथाऽऽवश्यकपदे व्याख्यातं तथैव वेदितव्यमिति । विषयविभागस्त्वमीषामयम् -
होति कयत्थो वोत्तुं सपदच्छेदं सुतं सुताणुगमो । सुत्तालावण्णासो नामादिण्णासविणिओगं ॥१॥ सुत्तप्फासियनिज्जुत्तिणिओगो सेसओ पदत्यादी । पायं सो च्चिय णेगमणयादिमतगोयरो भणिओ ॥२॥
[विशेषावश्यकभा० १००९-१०] एवं चसुत्तं सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । .
सुत्तप्फासियनिज्जुत्ती णया य समगंतु वच्चंति ॥३॥[विशेषावश्यकभा० १००१?] 15 शेषानाक्षेप-परिहारानावश्यके वक्ष्याम: । तो तत्थ णजिहिती ससमयपदं
वेत्यादि, ततः तत्र विधिना सूत्र उच्चरिते ज्ञास्यते स्वसमयपदं वा पृथिवीकायिकादि परसमयपदं वा नास्ति जीव इत्यादि, अनयोरेवैकं बन्धपदम् अपरं मोक्षपदमित्येके, अये तु प्रकृति-स्थित्यनुभाव-प्रदेशास्तद्विधयः [तत्त्वार्थे ८।४] इति बन्धपदम्,
कृत्स्नकर्मक्षयात् मोक्षः [तत्त्वार्थे १०।३] इति मोक्षपदम् । आह- तदुभयमपि 20 स्वसमयपदमेव, तत् किमर्थं भेदेनोक्तम् ? इति, उच्यते- अर्थाधिकारभेदाद् । एवं
सामायिक-नोसामायिकयोरपि वाच्यमिति, नवरं सामायिकपदमिदमेव, नोसामायिकपदं तु धम्मो मंगल[ देशवै० १।१]मित्यादि, अनेनोपन्यासप्रयोजनमुक्तम्, अत उच्चार्य इत्यर्थः । ततस्तस्मिन्नुच्चरिते सति केषाञ्चिद् भगवतां साधूनां केचन अर्थाधिकाराः अधिगता: परिज्ञाता भवन्ति, क्षयोपशमवैचित्र्यात्, के चित्त्वनधिगता:, १. द्वाभ्यामनुगंतव्यः प्र० ॥ २. गमे च स चा प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org