________________
६०९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
पर्याय इति गाथार्थः।
तदेवं पूर्वोक्तप्रकारेण सामायिकवत: साधो: स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह- उरग गाहा, स श्रमणो भवतीति सर्वत्र सम्बध्यते, य: कथम्भूतो भवति ? इत्याह- उरग: सर्पस्तत्समः परकृताश्रयनिवासादिति । एवं समशब्दोऽपि 5 सर्वत्र योज्यते । तथा गिरसमः परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसम: तपस्तेजोमयत्वात् । सागरसमो गुणरत्नपरिपूर्णत्वाद् ज्ञानादिगुणैरगाधत्वाद्वा । नभस्तलसम: निरालम्बनत्वात् । तरुगणसमः सुख-दु:खयोरदर्शितविकारत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसम: संसारं प्रति नित्योद्विग्नत्वात् । धरणिसम:
सर्वंसहत्वात् । जलरुहसम: निष्पकत्वात्, पङ्क-जलस्थानीयकाम-भोगोपरिवृत्तेरित्यर्थः 10 रविसम: तमोविघातकत्वात् । पवनसमश्च सर्वत्राप्रतिबद्धत्वात् । स एवम्भूत: श्रमणो भवतीति गाथार्थः ।
यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति - तो समणो गाहा, व्याख्या-तत: श्रमणो यदि द्रव्यमन: प्रतीत्य सुमना:, भावेन
च भावमनश्चाश्रित्य यदि न भवति पापमनाः । सुमनस्त्वचिह्नान्येव श्रमणगुणत्वेन 15 दर्शयति- स्वजने च पुत्रादिके जने च सामान्ये समः निर्विशेष:, माना-ऽपमानयोश्च सम इति गाथार्थः ।
इह च ज्ञान-क्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञान-क्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वात्, एवं च
सति सामायिकवत: साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, 20 सामायिक-तद्वतोरभेदोपचारादिति भाव: । नामनिष्पन्नो निक्षेप: समाप्त: ।
___अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह - से किं तं सुत्तालावयेत्यादि। अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप: ?, ‘करोमि भदन्त ! सामायिकम्' इत्यादीनां सूत्रालापकानां नाम-स्थापनादिभेदभिन्नो यो न्यास: स सूत्रालापकनिष्पन्नो निक्षेप इति
शेष: । इयाणिमित्यादि, स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप: एषयति 25 अवसरप्राप्तत्वादित्थमात्मानं प्रतिपादयितुं वाञ्छामुत्पादयति, स च प्राप्तलक्षणोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org