________________
अनुयोगद्वारसूत्रम् [ सू० ५९३-६००]
६०८ निक्षिप्त इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति, तस्मादिह न निक्षिप्यते, तत्रैव निक्षेप्स्यते इति । आह- कः पुनरित्थं गुण: ? सूत्रानुगमे सूत्रभाव:, इह तु तदभाव इति विपर्ययः। आह- यद्येवं किमर्थमिहोच्चार्यते ? उच्यतेनिक्षेपमात्रसामान्यादिति । उक्तो निक्षेपः।
[हे० ५९३-६००] अथ नामनिष्पन्नं निक्षेपमाह- से किं तं नामनिप्पन्ने 5 इत्यादि। इहाध्ययना-ऽक्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम् । अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नाम-स्थापनाद्रव्य-भावभेदाच्चतुर्विधो निक्षेप: । अत एवाह- से समासओ चउव्विहे इत्यादि, सूत्रसिद्धमेव, यावत् जस्स सामाणिओ अप्पा इत्यादि, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? संयमे मूलगुणरूपे नियमे 10 उत्तरगुणसमूहात्मके तपसि अनशनादौ तस्येत्थम्भूतस्य सामायिकं भवतीत्येतत् केवलिभाषितमिति श्लोकार्थः ।
जो समो इत्यादि, य: समः सर्वत्र मैत्रीभावात् तुल्य: सर्वभूतेषु सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितम्, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात् पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद् 15 धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । यत एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यत इति दर्शयन्नाह- जह मम गाहा, व्याख्या- यथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियम् एवमेव सर्वजीवानां तन्नाभीष्टमिति ज्ञात्वा चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयम्, नाप्यन्यैर्घातयति, चशब्दाद् घ्नतश्चान्यान् न समनुजानीत इत्यनेन प्रकारेण सममणति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण 20. इति गाथार्थः ।
तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येक: पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह- नत्थि य से गाहा, व्याख्या- नास्ति च से तस्य कश्चिद् द्वेष्य: प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वात्, अनेन भवति समं मनोऽस्येति निरुक्तिविधिना समना इत्येषोऽन्योऽपि 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org