________________
६०७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०जिवति-गल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
जो समो गाहा, यः समः तुल्य: सर्वभूतेषु सर्वजीवेषु, भूतशब्दो जीवपर्याय:, त्रस्यन्तीति त्रसा: द्वीन्द्रियादयस्तेषु, तिष्ठन्तीति स्थावराः पृथिव्यादयस्तेषु च, तस्य सामायिकमित्यादि पूर्ववत् ।
जह मम गाहा, व्याख्या-यथा मम न प्रियं दुःखम् प्रतिकूलत्वात् ज्ञात्वा 5 एवमेव सर्वजीवानां दुःखप्रतिकूलत्वं न हन्ति स्वयम्, न घातयत्यन्यैः, चशब्दाद् घातयन्तं च नानुमन्यतेऽन्यमिति । अनेन प्रकारेण समं अणति तुल्यं गच्छति यतस्तेनासौ समा(म?)ण इति गाथार्थः ।
___णत्थि य सि गाहा, नास्ति च से तस्य कश्चिद् द्वेष्य: प्रियो वा, सर्वेष्वेव जीवेषु तुल्यमनस्त्वात्, एतेन भवति समना:, समं मनोऽस्येति समनाः । एषोऽन्योऽपि 10 पर्याय इति गाथार्थः ।
उरग गाहा, उरगसमः परकृतबिलनिवासात् । गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसमस्तपस्तेजोयुक्तत्वात् । सागरसमो गुणरत्नपूर्णत्वात् । नभस्तलसमो निरालम्बनत्वात् । तरुगणसमः सुख-दुःखयोस्तुल्यत्वात् ।
भ्रमरसमोऽनियतवृत्तित्वात् । मृगसम: संसारं प्रति नित्योद्वेगात्। धरणिसम: 15 सर्वस्पर्शसहिष्णुत्वात् । जलरुहसमो निष्पङ्कत्वात्, पङ्क-जलस्थानीयकाम
भोगोपरिवृत्तेरित्यर्थः । रविसमस्तमोविघातकत्वात् । पवनसम: सर्वत्राप्रतिबद्धत्वात्। एतत्समस्तु य: असौ श्रमण इति गाथार्थः ।
___ तो समणो गाहा, ततः श्रमणो यदि सुमना: द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पापमनाः । एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च 20 माना-ऽपमानयोरिति गाथार्थः । सामायिकवाँश्च श्रमण इति सामायिकाधिकारे खल्वस्योपन्यासो न्याय्य एवेत्युक्तो नामनिष्पन्नः ।
से किं तं सुत्तालावगनिप्फन्ने इत्यादि, य: सूत्रपदानां नामादिन्यास: स सूत्रालापकनिष्पन्न इति । स इदानीं सूत्रालापकनिष्पन्नो निक्षेप: इच्छावेइ त्ति
एषयति प्रतिपादयितुमात्मानमवसरप्राप्तत्वात्, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, 25 कस्मात् ? लाघवार्थम्, लाघवं च अस्ति इतस्तृतीयमनुयोगद्वारमनुगम इति, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org