________________
६०३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् निगद्यते, इदमेवाऽऽय: प्रतिपाद्यते, एतदेव क्षपणाऽभिधीयते, एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयम् । साम्प्रतमेतेषां चतुर्णामपि निक्षेपं प्रत्येकमभिधित्सुराह- से किं तं अज्झयणे इत्यादि, नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः। तत्र नामादिविचार: सर्वोऽपि पूर्वोक्तद्रव्या(नामा)वश्यकानुसारेण वाच्यो 5 यावन्नोआगमतो भावाध्ययने अज्झप्पस्साणयणमित्यादि गाथा, व्याख्या
अज्झप्पस्स आणयणं इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च पकार-सकारआकार-णकारलक्षणमध्यगतवर्णचतुष्टयलोपे अज्झयणमिति भवति । अध्यात्म चेतस्तस्याऽऽनयनमध्ययनमुच्यते इति भावः । आनीयते च सामायिकाद्यध्ययनेन शोभनं
चेतः, अस्मिन् सति अशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानां 10 प्रागुपनिबद्धानां यतोऽपचयः ह्रासोऽस्मिन् सति सम्पद्यते, नवानां चानुपचय: अबन्धो
यतस्तस्मादिदं यथोक्तशब्दार्थोपपत्ते: अज्झयणं प्राकृतभाषायामिच्छन्ति सूरयः, संस्कृते त्विदमप्यध्ययनमुच्यत इति । सामायिकादिकं चाध्ययनं ज्ञान-क्रियासमुदायात्मकम्, ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वाद् नोआगमतो
अध्ययनमिदमुक्तमिति गाथार्थ: । सेतमित्यादि निगमनत्रयम् ।। 15 उक्तमध्ययनम् । अथाक्षीणनिक्षेपं विवक्षुराह- से किं तं अज्झीणे इत्यादि।
अत्रापि तथैव विचारो यावत् सव्वागाससेढि त्ति, सर्वाकाशं लोका-ऽलोकनभ:स्वरूपम्, तस्य सम्बन्धिनी श्रेणिः प्रदेशापहारतोऽपह्रियमाणाऽपि न कदाचित् क्षीयते, अतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया प्रोच्यते, द्रव्यता
चास्याकाशद्रव्यान्तर्गतत्वादिति । से किं तं आगमतो भावज्झीणे ?, भावज्झीणे 20 जाणए उवउत्ते । अत्र वृद्धा व्याचक्षते- यस्माच्चतुर्दशपूर्वविद: आगमोपयुक्तस्यान्त
मुहूर्तमात्रोपयोगकाले येऽर्थोपलम्भोपयोगपर्यायास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि- पह्रियन्ते अतो भावाक्षीणतेहावसेया, नोआगमतस्तु भावाक्षीणता शिष्येभ्य: सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति । एतदेवाह
जह दीवा गाहा, व्याख्या- यथा दीपाद् अवधिभूताद् दीपशतं प्रदीप्यते 25 प्रवर्तते, स च मूलभूतो दीप: तथापि दीप्यते तेनैव रूपेण प्रवर्तते, न तु स्वयं
क्षयमुपयाति । प्रकृते सम्बन्धयन्नाह- एवं दीपसमा आचार्याः, दीप्यन्ते स्वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org