________________
अनुयोगद्वारसूत्रम् [ सू० ५३४-५९२]
६०२ कर्मणां ज्ञानावरणीयादीनाम् अपचय: ह्रास: उपचितानां प्रागुपनिबद्धानामिति । तथा अनुपचयश्च अवृद्धिश्च नवानां प्रत्यग्राणाम्, तस्मादुक्तशब्दार्थोपपत्तेरध्ययनमिच्छन्ति विपश्चित इति गाथार्थः ।
से किं तं अज्झीणे इत्यादि सूत्रसिद्धं यावत् से किं तं आगमतो भावज्झीणे? आगमतो भावज्झीणे जाणए उवउत्ते त्ति, अत्र वृद्धा व्याचक्षते-यस्माच्चतुर्दशपूर्वविद 5 आगमोपयुक्तस्यान्तर्मुहूर्त्तमात्रोपयोगकालेऽर्थोपलम्भोपयोगपर्याया ये ते समयापहारेणाऽनन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पह्रियन्ते यतोऽतो भावाक्षीणमिति । नोआगमतस्तु भावाक्षीणं शिष्यप्रदानेऽपि स्वात्मन्यनाशादिति, तथा चाह- जह दीवा गाहा, यथा दीपादवधिभूताद् दीपशतं प्रदीप्यते, स च दीप्यते दीपः, न तु स्वत: क्षयमुपव्रजति। एवं दीपसमा आचार्या दीप्यन्ते स्क्तः परं च दीपयन्ति व्याख्यानविधिनेति 10 गाथार्थः । नोआगमत्वं चेहाचार्योपयोगस्य भावागमत्वाद् वाक्काययोगयोश्चानागमत्वात्, मिश्रवचनश्च नोशब्द इति वृद्धा व्याचक्षते ।
से किं तं आए इत्यादि । आयो लाभ: प्राप्तिरित्यनर्थान्तरम्, अयं सूत्रसिद्ध एव । नवरं संतसावएजस्स आए त्ति संतं सिरिघरादिसु विज्जमाणं सावएज्जं दानाऽऽक्षेप-ग्रहणेषु स्वाधीनम् ।
से किं तं झवणा इत्यादि । क्षपणा अपचयो निर्जरति पर्यायाः, शेषं सुगमम्। सर्वत्र चेह भावेऽध्ययनमेव भावनीयमिति । उक्त ओघनिष्पन्नः ।
हे० ५३४-५९२] अथ निक्षेपद्वारं निरूपयितुमाह- से किं तं निक्खेवे इत्यादि। निक्षेप: पूर्वोक्तशब्दार्थ: त्रिविध: प्रज्ञप्तः, तद्यथा- ओघनिष्पन्न इत्यादि। तत्रौघ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्न: ओघनिष्पन्नः, नाम श्रुतस्यैव 20 सामायिकादिकं विशेषाभिधानं तेन निष्पन्नो नामनिष्पन्न:, सूत्रालापका:- करेमि भंते ! सामायियमित्यादिकास्तैर्निष्पन्न: सूत्रालापकनिष्पन्नः । एतदेव भेदत्रयं विवरीषुराहसे किंतं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा- अध्ययनम् अक्षीणम् आय: क्षपणा । एतानि चत्वार्यपि सामायिक-चतुर्विंशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि, तथाहि- सामायिकमध्ययनमुच्यते, तदेवाक्षीणं 20
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org