________________
५९२
अनुयोगद्वारसूत्रम् [ सू० ५२६-५३३] शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात् सूत्रे न निरूपितम्, सोपयोगत्वात् स्थानाशून्यार्थं किञ्चिद् वयमेव निरूपयाम:- तत्र सामायिकं चतुर्विंशतिस्तव इत्याद्युत्कीर्तनविषयत्वात् सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति। तथा गणनानुपूर्त्यां च, तथाहि- पूर्वानुपूर्व्या गण्यमानमिदं प्रथमम्, पश्चानुपूर्व्या तु षष्ठम्, अनानुपूर्व्या तु व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् । नाम्नि च 5
औदयिकादिभावभेदात् षण्णाम प्रागुक्तम्, तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन . क्षायोपशमिकभाववृत्तित्वात् क्षायोपशमिकभावनाम्नि समवतरतीति । आह च भाष्यकार:
छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणक्खओवसमजं तयं सव्वं ॥१॥ [विशेषावश्यकभा० ९४५] 10
प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद् भावप्रमाणे इदं समवतरतीति। उक्तं च
दव्वाइ चउब्भेयं पमीयए जेण तं पमाणं ति । इणमज्झयणं भावो त्ति भावमाणे समोयरइ ॥१॥ [विशेषावश्यकभा० ९४६]
भावप्रमाणं च गुण-नय-सङ्ख्याभेदतस्त्रिधा प्रोक्तम्, तत्रास्य गुण- 15 सङ्ख्याप्रमाणयोरेवावतारः । नयप्रमाणं तु यद्यपि- आसज्ज उ सोयारं नए नयविसारओ बूया [आवश्यकनि० ७६१] इत्यादिवचनात् कश्चिन्नयसमवतार उक्तः तथापि साम्प्रतं तथाविधनयविचाराभावाद् वस्तुवृत्त्याऽनवतार एव । यत इदमप्युक्तम्- मूढनइयं सुयं कालियं तु न नया समोयरंति इह [आवश्यकनि० ७६२] मित्यादि । महामतिनाऽप्युक्तम्- मूढनयं तु न संपइ नयप्पमाणेऽवयारो से [विशेषावश्यकभा० 20 ९४९] त्ति । गुणप्रमाणमपि जीवाऽजीवगुणभेदतो द्विधा प्रोक्तम्, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञान-दर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षाऽनुमानोपमाना-ऽऽगमभेदाच्चतुर्विधे प्रकृताध्ययनस्याऽऽप्तोपदेशरूपतया आगमेऽन्तर्भाव:, तस्मिन्नपि लौकिक-लोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमा- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org