________________
५९१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् चात्मवृत्त्यविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितम् ।
चउसट्ठिया आयसमोयारेणमित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्वं निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायां द्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां 5 षोडशिकायाम्, षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम्, अष्टभागिकाऽपि
चतुःषष्टिपलमानायां चतुर्भागिकायाम्, चतुर्भागिकाऽप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम्, एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति, आत्मसमवतारस्तु सर्वत्र प्रतीत एव । समाप्तो द्रव्यसमवतारः ।
अथ क्षेत्रसमवतारं बिभणिपुराह- से किं तं खेत्तसमोयारे इत्यादि, इह 10 भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं वृद्धक्षेत्रे समवतारो भावनीयः । एवं कालसमवतारेऽपि समयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतार: सुबोध एव, आत्मसमवतारस्तु सर्वत्र स्पष्ट एव ।
अथ भावसमवतारं विवक्षुराह- से किं तं भावसमोयारेत्यादि, 15 इहौदयिकभावरूपत्वात् क्रोधादयो भावसमवतारेऽधिकृता:, तत्राहङ्कारमन्तरेण
कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः, क्षपणकाले च मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायां समवतारः, मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतार:, एवमन्यदपि कारणं
परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यम्, लोभात्मकत्वाच्च रागस्य लोभो रागे समवतरति, 20 रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपि कर्मप्रकारत्वादष्टसु कर्मप्रकृतिषु,
कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वात् षट्सु भावेषु, भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वात् जीवास्तिकाये, जीवास्तिकायोऽपि द्रव्यभेदत्वात् समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः ।
अत्र च प्रस्तुते आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि 25 व्याख्येयत्वेन प्रस्तुतत्वात् पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु व समवतरतीति निरूपणीयमेव,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org