________________
अनुयोगद्वारसूत्रम् [ सू० ५२६-५३३]
५९० तदुभयसमवतारेण माने समवतरति आत्मभावे च, यतो मानेन क्रुध्यतीति, एवं सर्वत्रोभयसमवतारे कारणत्वसामान्यधर्मत्वाऽन्योन्यव्याप्त्यादिकं कारणं स्वबुद्ध्या वक्तव्यमिति । उक्तो भावसमवतार:, तदभिधानाच्चोपक्रम इति । समाप्त उपक्रमः ।
[हे० ५२६-५३३] साम्प्रतमर्थाधिकारावसर:- तत्र यो यस्य सामायिकाद्यध्ययनस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च 5 सावज्जजोगविरतीत्यादिगाथावसरे प्रागेव कृतमिति न पुन: प्रतन्यत इति । वक्तव्यताऽर्थाधिकारयोस्त्वयं भेद:- अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति।
अथ समवतारं निरूपयितुमाह- से किं तं समोयारे इत्यादि। समवतरणंवस्तूनां स्व-परोभयेष्वन्तर्भावचिन्तनं समवतार: । स च नामादिभेदात् षोढा । तत्र 10 नाम-स्थापने सुचर्चिते । एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्य:, यावद् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्तः, तद्यथा
आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे स्वकीयस्वरूपे समवतरन्ति वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति, निश्चयत: सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या 15 स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भाव:, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कट-कुड्य-देहली-पट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवं बुध्नोदर-कपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति ।।
आह-यद्येवं शुद्ध: परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां 20 स्वात्मनि वृत्तेर्विद्यमानत्वात्, सत्यम्, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतः, वस्तुवृत्त्या तु द्विविध एव समवतारः । अत एवाह- अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्तः, तद्यथाआत्मसमवतारस्तदुभयसमवतारश्च, शुद्धस्य परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य वान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्वं 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org