________________
५८९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् णियमा उवसमिय-खइयादयो भावा भवंतीति ण दोसो । उक्त उपक्रम: ।
[हा० ५२६-५३३] साम्प्रतमर्थाधिकारावसर:- स च सामायिकादीनां प्राक् प्रदर्शित एवेति न प्रतन्यते । वक्तव्यता-ऽर्थाधिकारयोश्चायं भेद:-अर्थाधिकारो ह्यध्ययने
आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये मूर्त्तत्ववद्, . देशादिनियता तु 5 वक्तव्यतेति।
से किं तं समोतारे? इत्यादि। समवतरणं समवतारः, अध्ययनासन्नताकरणमिति भावः । अयं च षड्विधः प्रज्ञप्त इत्यादि निगदसिद्धमेव यावद् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्तः । तद्यथा- आत्मसमवतार
इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेणाऽऽत्मभावे समवतरन्ति वर्त्तन्ते, 10 तदव्यतिरिक्तत्वाद्, यथा जीवद्रव्याणि जीवभावे इति, भावान्तरसमवतारे तु
स्वभावत्यागादवस्तुत्वप्रसङ्ग: । व्यवहारतस्तु परसमवतारेण परभावे, यथा कुण्डे बदराणि, स्वभावव्यवस्थितानामेवान्यत्र भावात् । तदुभयसमवतारेण तदुभये, यथा गृहे स्तम्भः आत्मभावे चेत्यादि, मूल-पाद-देहली-कुड्य-स्तम्भ
तु(त?)लादिसमुदायत्वाद् गृहस्य, तत्र च स्तम्भस्य मूल-पादादयः परे, आत्मा 15 पुनरात्मैव, तदुभये चास्य समवतारस्तथावृत्तेरिति । एवं घटे ग्रीवा आत्मभावे च, सामान्य-विशेषात्मकत्वात् तस्य ।
अथवा ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारो द्विविध: प्रज्ञप्त:, तद्यथाआत्मसमवतारस्तदुभयसमवतारश्च । शुद्धः परसमवतारो नास्त्येव, आत्मसमवताररहितस्य परसमवताराभावात्, न ह्यात्मन्यवर्तमानो गर्भो जनन्युदरादौ वर्तत इति । चउसट्ठिया 20 इत्यादि, छप्पण्णा दो पलसता माणी भण्णति, तस्स चउसट्ठिभागो चउसट्ठिया चउरो
पला भवंति । एवं बत्तीसियाए अट्ठ पला। सोलसियाए सोलस । अट्ठभाइयाए बत्तीसं। चउभाइयाए चउसटिं। [दोभाइयाए] अट्ठावीसुत्तरं पलसतं । सेसं कंठं । द्रव्यता त्वमीषां प्रतीतैव। क्षेत्र-कालसमवतारस्तु सूत्रसिद्ध एव । एवं सर्वत्र । उभयसमवतारे तु क्रोध आत्मसमवतारेण आत्मभावे समवतरति, १. प्रतिषु पाठाः - मानो वा...। - यो जनन्यु जे१ वा० । 'मानो वा प्रयोजनन्यु जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org